Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 22 अप्रैलमासः (हि.स.)।नरेन्द्र मोदी इति प्रधानमन्त्री पृथिवीं ‘माता’ इति निर्दिश्य तस्याः संरक्षणं मानवकल्याणेन सह सम्बद्धं महत्त्वपूर्णं दायित्वम् इति उक्तवान्। सः अवदत् यत् पृथिव्याः रक्षणं न केवलं अस्माकं कर्तव्यं, अपि तु आगामिपीढीनां प्रति अस्माकं पवित्रसंकल्पः अपि अस्ति।
प्रधानमन्त्री बुधवासरे ‘एक्स’ माध्यमे संस्कृतसुभाषितं साझा कृत्वा प्रकृतिसंरक्षणस्य सन्देशं दत्तवान्। सः अलिखत्—
“यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं धेनुं प्रदुहां न उदिच्छन्तु नमोऽस्तु पृथिव्यै॥”
अस्य सुभाषितस्य अर्थं व्याख्याय सः उक्तवान् यत् या पृथिवी यत्र वृक्षाः वनस्पतयः च स्थिरतया प्रतिष्ठिताः सन्ति, या च समग्रस्य जगतः पोषणं करोति, सा धेनुरिव अस्ति। तस्याः उपयोगः करणीयः, किन्तु तस्याः अहितं न कर्तव्यम्।
अन्ते सः पृथिव्यै नमस्कारं कृत्वा तस्याः संतुलितोपयोगस्य संरक्षणस्य च आवश्यकतां विशेषतया प्रतिपादितवान्।
---------------
हिन्दुस्थान समाचार