Enter your Email Address to subscribe to our newsletters

दंतेवाड़ा (छत्तीसगढ़म्) , 22 अप्रैलमासः (हि.स.)।बस्तरसंभागस्य पूर्वं नक्सलप्रभाविते दंतेवाड़ा जिल्लायाः कृते अद्य दिनं विशेषं भविष्यति। अद्य महान् क्रीडापुरुषः सचिन तेंदुलकर दंतेवाड़ाप्रवासाय आगच्छति। सः छिंदनार-जावङ्गा इत्यादिषु ग्रामेषु निर्मितानां नवीनानां बहुक्रीडाक्षेत्राणां उद्घाटनं करिष्यति।
तस्य गीदम-प्रेक्षागृहे शिक्षकैः बालकैः सह मिलनकार्यक्रमः तथा पनेडा-क्रीडाङ्गणस्य उद्घाटनयात्रा निरस्ता अभवत्। सचिन तेंदुलकर सह विष्णुदेव साय अपि आगन्तुं नियोजितः आसीत्, किन्तु कस्यचित् कारणस्य कारणात् तस्य यात्रापि निरस्ता जाता।
जिलाधीशः मयंकचतुर्वेदी उक्तवान् यत् अयं प्रवासः केवलं उद्घाटनकार्यक्रमः नास्ति, अपि तु ‘मैदानकप’ नाम्ना योजनया दूरस्थग्रामाणां बालकान् क्रीडाभिः संयोजयितुं महती योजना अस्ति। अधिकारिणां अनुसारं सचिन तेंदुलकर फाउण्डेशनं तथा प्रशासनं मिलित्वा पञ्चाशत् क्रीडाक्षेत्राणि निर्मातुं प्रयतन्ते, येषु पञ्चदश क्रीडाक्षेत्राणां निर्माणकार्यं सम्पन्नम् अस्ति।
जिलाप्रशासनस्य अनुसारं तेंदुलकरः चार्टर्डविमानेन स्वामी विवेकानंद एयरपोर्ट रायपुरं प्राप्स्यति। ततः सः उदग्रविमानद्वारा प्रत्यक्षं दंतेवाड़ां गमिष्यति। अस्य कृते नक्सलप्रभाविते क्षेत्रे पुलिसप्रशासनेन कठोराः सुरक्षाव्यवस्थाः कृताः सन्ति।
जिलाधीशः मयंकचतुर्वेदी तथा पुलिसअधीक्षकः गौरवरायः छिंदनार-पनेडा इत्येतयोः क्रीडाङ्गणयोः पूर्वमेव निरीक्षणं कृतवन्तौ।
हिन्दुस्थान समाचार