Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, २२ अप्रैलमासः (हि.स.)। राज्यपालः हरिभाऊ-बागडे उक्तवान् यत् कौशल-शिक्षायाः उपयोगः राष्ट्रस्य सर्वाङ्गीण-विकासाय भवितुम् अर्हति। तेन उक्तं यत् यस्य समीपे उत्तमं कौशलम् अस्ति, तस्मै सर्वत्र कार्यं लभ्यते, सः कदापि न बुभूक्षितः भवति। तेन कौशल-शिक्षया सह विश्वविद्यालयेषु नैतिक-शिक्षायाः प्रोत्साहने बलं दत्तम्। तेन उक्तं यत् नैतिक-मूल्यानां शिक्षया भौतिक-विकासस्य गुणवत्तायां वृद्धिः भवति।
राज्यपालः बागडे बुधवासरे विश्वकर्मा-कौशल-विश्वविद्यालयस्य द्वितीय-दीक्षान्त-समारोहे सम्बोधयन् आसीत्। तेन विश्वविद्यालयेन प्रतिवर्षं दीक्षान्त-समारोहः अनिवार्यतया आयोजनीयः इति निर्देशः दत्तः। तेन उक्तं यत् दीक्षान्त-समारोहः लघु-स्तरे अपि भवतु, किन्तु नियमितः भवेत्। ये विद्यार्थिन: विश्वविद्यालये पठन्ति, तेभ्यः समये एव उपाधिः दातव्या। अनेन तेभ्यः दिशा लभ्यते।
बागडे उक्तवान् यत् प्रतिभाशालिनः राष्ट्रस्य निर्माणाय कौशल-विकासेन सह विद्यार्थिभ्यः नैतिकतायाः पाठः अपि अध्यापनीयः। तेन उक्तं यत् बालानां बौद्धिक-क्षमतां वर्धयित्वा तान् नकल-प्रवृत्तेः निरोधाय शिक्षणं दातव्यम्। अस्य कृते तेन शिक्षकेभ्यः स्वयम् अद्यतनाः भूत्वा शिक्षायाः प्रभावी-विकासाय प्रयत्नः कर्तव्यः इति बलं दत्तम्। तेन उक्तं यत् नूतन-शिक्षा-नीतौ उत्तम-नागरिक-निर्माणेन सह आदर्श-आचरणे विशेषं बलं दत्तम् अस्ति।
बागडे उक्तवान् यत् २ फरवरी १८३५ तमे वर्षे लॉर्ड् मैकॉलेन दत्ते उद्बोधने उक्तं यत् भारतं दीर्घकालं दासरूपेण स्थापयितुं तेषां शिक्षापद्धतिः परिवर्तनीया। आङ्ग्लदेशीयैः एतदेव कृतम्, येन देशः दीर्घकालं दासत्वे आसीत्। राज्यपालः उक्तवान् यत् स्वातन्त्र्यपूर्वे देशे अष्टलक्षाधिकाः गुरुकुलाः आसन्, येषु सर्वप्रकारा शिक्षा दीयते स्म। अङ्ग्लदेशीयैः एषा शिक्षापद्धतिः परिवर्तिता, दास-मानसिकतायाः शिक्षा प्रदत्ता।
राज्यपालः उक्तवान् यत् स्वातन्त्र्य-प्राप्तौ आचार्य-विनोबा-भावेन उक्तं यत् यथा यूनियन-जैक् ध्वजः परिवर्त्य त्रिरङ्गः कृतः, तथा देशस्य शिक्षापद्धतिः अपि परिवर्तनीया आसीत्, किन्तु तत् न अभवत्। अधुना “नव-शिक्षा-नीतिः २०२०” पूर्णतया भारतीय-दृष्ट्या निर्मिता अस्ति। अस्याम् विद्यार्थिनां बौद्धिक-क्षमतायाः वृद्ध्या सह तेषां सर्वाङ्गीण-विकासे ध्यानं दत्तम् अस्ति।
बागडे विश्वकर्माणं देवानां शिल्पकारं निर्दिश्य उक्तवान् यत् सः ब्रह्माण्डस्य प्रथमः अभियन्ता आसीत्। तेन एम.विश्वेश्वरैयस्य स्मरणं कृत्वा तस्य अभियान्त्रिकी-कौशलात् समयपालनात् च शिक्षां ग्राहयितुम् आह्वानं कृतम्।
उद्योग-वाणिज्य-युवा-कार्य-क्रीडा-विभागस्य मन्त्री कर्नल: राज्यवर्धन-सिंह-राठौड: उक्तवान् यत् विद्यार्थीभिः यत् किञ्चित् शिक्ष्यते, तत् सीमितं न कर्तव्यम्। तेन विद्यार्थिनः सृजनशीलतया स्थित्वा निरन्तरं अन्येभ्यः शिक्षमाणाः स्वकौशलैः जगत् परिवर्तयितुं प्रेरिताः। तेन पियूष-पाण्डेयस्य उदाहरणं दत्त्वा उक्तं यत् सः जीवनं यत् पश्यति तत् स्मृत्वा उत्कृष्टं सृजनं करोति स्म। तेन यूनां स्वलक्ष्याणि उच्चानि स्थापयितुं तथा स्वयम् अग्रे स्थापयितुं बलं दत्तम्। तेन उक्तं यत् सृजनशीलतायाः सीमा नास्ति। विश्वे यत् किञ्चित् घटते, तस्य ज्ञानं कृत्वा तदनुसारं स्वयम् अनुकूलितुं प्रयत्नः कर्तव्यः, येन युनः सफलतायाः शिखरं प्राप्तुं शक्नुवन्ति।
विश्वकर्मा-कौशल-विश्वविद्यालयस्य कुलगुरुः प्रो.देवस्वरूपः सर्वेषां स्वागतं कृत्वा विश्वविद्यालयेन कौशल-विकासाय क्रियमाणानां कार्याणां विषये सूचनां दत्तवान्। पूर्वं विश्वविद्यालयस्य विषये चलचित्रस्य अपि प्रदर्शनं कृतम्। राज्यपालेन पूर्वं विद्यार्थिभ्यः उपाधयः पदकानि च प्रदत्तानि।
हिन्दुस्थान समाचार / अंशु गुप्ता