Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 22 अप्रैलमासः (हि.स.)।
बस्तर-प्रदेशस्य युवान् आधुनिक-युगस्य आह्वानानां प्रति सज्जीकर्तुं दिशि महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। धरमपुरा-स्थिते विवेकानन्द-विद्यालये अप्रैल-मासस्य २०-तारिखात् २२-तारिखपर्यन्तं छात्राणां कृते कृत्रिम-बुद्धिमत्ता तथा उदित-प्रौद्योगिकी-विषयकः विशेषः त्रिदिवसीय-प्रशिक्षण-कार्यक्रमः आयोजितः।
जिलाप्रशासनस्य तथा शिक्षा-विभागस्य मार्गदर्शने आयोजितस्य अस्य कार्यक्रमस्य मुख्य-उद्देश्यं प्रथम-समूहे स्थितान् २५ छात्रान् एकविंशतितम-शताब्द्याः अनिवार्य-कौशलैः यथा समस्या-समाधानम्, सृजनशीलता तथा प्रौद्योगिकी-दक्षता इत्यादिभिः सुसज्जीकर्तुम् आसीत्।
“द पाई जैम फाउण्डेशन” इत्यस्य संस्थायाः सञ्चालनाधीनस्य अस्य कार्यक्रमस्य प्रभावी-क्रियान्वयनस्य तथा निरीक्षणस्य कार्ये पीपीआईए-फेलो-इत्येषां महत्त्वपूर्णा भूमिका आसीत्, येन सम्पूर्णा योजना सफलतया कार्यरूपे परिणीता।
प्रशिक्षण-कालस्य मध्ये छात्राः अनुभवानुगुणं शिक्षणं प्राप्तवन्तः, यत्र ते डिजाइन-थिंकिंग-पद्धत्या वास्तविक-जीवनस्य जटिल-समस्यानां परिचयं कृत्वा तासां व्यावहारिक-समाधानानि अन्वेष्टुं शिक्षितवन्तः। सैद्धान्तिक-ज्ञानात् परं गत्वा छात्राः कृत्रिम-बुद्धिमत्तायाः मूल-सिद्धान्तान्, कम्प्यूटर-विजन, दत्तांश-पूर्वानुमान इत्यादीनि आधुनिक-विषयान् तथा प्रौद्योगिक्याः नैतिक-प्रयोगस्य सूक्ष्मताः अपि अवगतम्।
अस्य कार्यशालायाः प्रमुखा विशेषता तस्य व्यावहारिक-पक्षः आसीत्, यस्मिन् छात्राः आर्डुइनो तथा आधारभूत-इलेक्ट्रॉनिक्स-साधनानां साहाय्येन लघु-परियोजनासु स्वयमेव कार्यं कृतवन्तः। हार्डवेयर-घटकानां सह प्रयोगं कृत्वा ते अनुभूतवन्तः यत् कथं प्रौद्योगिक्याः समुचितः उपयोगः दैनिक-जीवनस्य बाधाः निवारयितुं शक्नोति।
तत्सह “कोडमित्रा इत्यस्य माध्यमेन तेषां कृते भविष्य-व्यवसाय-अवसराणां विस्तृता सूचना प्रदत्ता, येन तेषां अन्तः नूतन-सम्भावनासु दृष्टिकोणः विकसितः।
सर्वथा सहभागितामूलकः तथा क्रियाशील-आधारितः अयं प्रशिक्षण-कार्यक्रमः छात्राणां मध्ये गाढां जिज्ञासां उत्साहं च जनितवान्। नूतन-प्रौद्योगिकी-अधिगमे छात्राः सक्रियतया सहभागितां कृत्वा स्वस्य आलोचनात्मक-चिन्तन-शक्तिमपि प्रदर्शितवन्तः।
बस्तर-प्रदेशे कृता एषा अभिनवा पहल अत्रत्य-विद्यार्थिनः डिजिटल-युगस्य परिवर्तमान-आवश्यकतानुसारं रूपान्तरयितुं तथा नवोन्मेष-क्षेत्रे नेतृत्वाय प्रेरयितुं दूरगामी-फलप्रदा भविष्यति।
---------------
हिन्दुस्थान समाचार