Enter your Email Address to subscribe to our newsletters

- आगामी 28 अप्रैल से इनर लाइन परमिट की ऑनलाइन प्रक्रिया शुरू हाेगी
-सुरक्षित व सुव्यवस्थित यात्रा के लिए प्रशासन तैयार, डीएम ने दिए सख्त निर्देश
पिथौरागढ़म् , 22 अप्रैलमासः (हि. स.)। आदि-कैलाश-ओम्-पर्वत-यात्रा-२०२६ कृते प्रशासनस्य सर्वाः सिद्धयः सम्पन्नाः। जोलिङ्कोङ्ग-स्थितस्य शिव-मन्दिरस्य कपाटाः मई-मासस्य प्रथम-दिने श्रद्धालुभ्यः उद्घाटिताः भविष्यन्ति, तथा इनर-लाइन-परमिट्-इत्यस्य ऑनलाइन-प्रक्रिया अप्रैल-मासस्य २८-तारिखात् आरभ्यते। यात्रां सुरक्षितां सुगमां सुव्यवस्थितां च कर्तुं प्रशासनं सर्वान् विभागान् सजगान् कृतवान्।
आगामि-आदि-कैलाश-ओम्-पर्वत-यात्रायाः २०२६-वर्षस्य सिद्धतां प्रति जिलाधिकारी आशीष-कुमार-भटगांई-अध्यक्षतायां अद्य कलेक्ट्रेट-सभागारे समीक्षा-सभा आयोजिताऽभवत्। सभायां यात्रां सुरक्षितां सुगमां सुव्यवस्थितां च कर्तुं विभिन्न-विभागेभ्यः आवश्यक-निर्देशाः प्रदत्ताः।
जिलाधिकारी अवदत् यत् २०२६-वर्षस्य कृते इनर-लाइन-परमिट्-प्रक्रिया अप्रैल-मासस्य २८-तारिखात् आरभ्यते। श्रद्धालवः पोर्टल-माध्यमेन आवेदनं कर्तुं शक्नुवन्ति, परमिट्-प्रदानं तु धारचूला-उपजिलाधिकारी-कार्यालयात् भविष्यति। तेन अपि सूचितं यत् जोलिङ्कोङ्ग-स्थितस्य प्रमुख-शिव-मन्दिरस्य कपाटाः मई-मासस्य १-तारिखे उद्घाटिताः भविष्यन्ति।
यात्रा-मार्गे पेयजल-व्यवस्था, स्वास्थ्य-सेवा, मार्ग-व्यवस्था, दूरसञ्चार-सुविधा, खाद्यान्न-उपलब्धता, शौचालयाः, सुरक्षा तथा स्वच्छता इत्यादीनां सम्यक्-व्यवस्थायै निर्देशाः दत्ताः। जिलाधिकारी अपर-जिलाधिकरिणं योगेन्द्र-सिंहं प्रति आदेशं दत्तवान् यत् तस्य अध्यक्षतायां दलं निर्मीय यात्रारम्भात् पूर्वं गुंजी-प्रदेशस्य स्थलीय-निरीक्षणं कृत्वा विस्तृत-प्रतिवेदनं प्रस्तूयताम्।
स्वास्थ्य-सेवानां समीक्षायां जिलाधिकारी पिथौरागढ़-धारचूला-मुख्यालयेषु प्रतिदिनं स्वास्थ्य-परीक्षण-सुविधा स्थापयितुं निर्देशितवान्। लघु-चिकित्सा-शिविराणि स्थापयितुं, प्रमुख-स्थानेषु एएलएस-एम्बुलेन्स्-नियोजनं कर्तुं तथा आईटीबीपी-संस्थायाः साहाय्येन प्रत्येक-चेकपोस्टे चिकित्सा-कर्मचारिणः उपलब्धान् कर्तुं अपि अनुरोधः कृतः।
जिला-पर्यटन-विकास-अधिकारी कीर्ति-आर्या प्रति इनर-लाइन-परमिट्-प्रक्रियायाः दैनिक-निरीक्षणं तथा श्रद्धालूनां समुचित-लेखनं कर्तुं निर्देशः दत्तः, येन भविष्ये उत्तमा योजना निर्मातुं शक्येत।
मार्ग-परिवहन-व्यवस्थायाः समीक्षायां धारचूला-गुंजी तथा गुंजी-आदि-कैलाश-कालापानी-मार्गयोः स्थितिः परीक्षिता। बीआरओ-संस्थायै यात्रारम्भात् पूर्वं सर्वाः न्यूनताः दूरिकर्तुम् आदेशः दत्तः। जिलाधिकारी टैक्सी-सेवा, होम-स्टे, पार्किंग-व्यवस्था, पेयजल, विद्युत्, शौचालयाः, स्वच्छता तथा निवास-व्यवस्था इत्यादीनि सम्यक् स्थापयितुं निर्देशितवान्।
सप्लाई-विभागाय डीजल-उपलब्धतां सुनिश्चितुं तथा पेट्रोल-पम्पेषु आवश्यक-सुविधानां व्यवस्थां कर्तुं अपि आदेशः दत्तः। सभायां पुलिस-अधीक्षकः अक्षय-प्रहलाद-कोंडे, मुख्य-उप-चिकित्सा-अधिकारी प्रशान्त-कौशिकः तथा अन्ये विभागीय-अधिकारी उपस्थिताः आसन्।---
हिन्दुस्थान समाचार