Enter your Email Address to subscribe to our newsletters


देवरिया, 22 अप्रैलमासः (हि.स.)।
उत्तरप्रदेशस्य देवरिया-जनपदे पुलिस-अधीक्षकस्य अभिजीत-आर-सोनकरस्य निर्देशनाधीनं बुधवासरे जनपदस्य सर्वेषु थाना-क्षेत्रेषु ‘मिशन-शक्ति-फेज्-५.०’ तथा ‘शक्ति-दीदी’-अभियानं मिशन-शक्ति-एण्टि-रोमियो-दलैः संचालितम्। अस्मिन् अवसरे महिलाभ्यः बालिकाभ्यश्च जागरूकतायै पम्पलेट्-वितरणं कृतं तथा ताभ्यः विभिन्न-शासकीय-योजनानां सुरक्षा-हेल्पलाइन-संख्यानां च विषये सूचना प्रदत्ता।
थाना-कोतवाली-क्षेत्रे मिशन-शक्ति-दलस्य उपनिरीक्षिका आकांक्षा-यादवः, आरक्षी सुशील-कुमार-यादवः तथा महिला-आरक्षी प्रतीक-यादवः इत्येते मिशन-शक्ति-केंद्रे आगताभ्यः महिलाभ्यः छात्राभ्यः बालिकाभ्यश्च जागरूकतां जनितवन्तः। ताभ्यः डायल-११२, महिला-हेल्पलाइन-१८१, वुमेन-पावर-लाइन-१०९०, चाइल्ड-हेल्पलाइन-१०९८, सीएम-हेल्पलाइन-१०७६, वन-स्टॉप-सेंटर-१८१, स्वास्थ्य-सेवा-१०२, एम्बुलेन्स्-१०८ तथा साइबर-हेल्पलाइन-१९३० इत्यादीनां विषये विस्तरेण जानकारी प्रदत्ता।
एवमेव थाना-मदनपुर-रुद्रपुर-क्षेत्रयोः अपि मिशन-शक्ति-दलैः सक्रियता प्रदर्शिता। सार्वजनिक-स्थलेषु, बाजार-क्षेत्रेषु तथा धार्मिक-स्थलेषु गत्वा महिलाः बालिकाश्च स्व-अधिकारान्, सुरक्षा-उपायान् तथा शासकीय-योजनाः विषये जागरूकाः कृताः।
---------------
हिन्दुस्थान समाचार