अमेरिकी सहायक विदेशमंत्रिणः समीर पॉल कपूरस्य त्रिदिवसीय नेपालभ्रमणं पूर्णं, स्वदेशं प्रस्थितः
काठमांडूः, 22 अप्रैलमासः (हि.स.)। अमेरिकादेशस्य विदेशमन्त्रालये दक्षिणमध्यएशियाविषयाणां सहायकविदेशमन्त्री समीर पॉल कपूरः त्रिदिवसीयं नेपालदेशदौरं सम्पन्न्य स्वदेशं प्रत्यागच्छत्। अस्मिन् अवधौ तेन उच्चस्तरीयबैठकेषु नेपाल–अमेरिकयोः साझेदारीं सुदृढी
नेपाल दौरे पर रहे अमेरिकी सहायक विदेश मंत्री की कुछ प्रमुख मुलाकात


काठमांडूः, 22 अप्रैलमासः (हि.स.)।

अमेरिकादेशस्य विदेशमन्त्रालये दक्षिणमध्यएशियाविषयाणां सहायकविदेशमन्त्री समीर पॉल कपूरः त्रिदिवसीयं नेपालदेशदौरं सम्पन्न्य स्वदेशं प्रत्यागच्छत्। अस्मिन् अवधौ तेन उच्चस्तरीयबैठकेषु नेपाल–अमेरिकयोः साझेदारीं सुदृढीकरणं तथा व्यापारिकसम्बन्धानां विस्तारं विषये चर्चा कृता। नेपालस्थितेन अमेरिकीदूतावासेन एषा सूचना प्रदत्ता।

भारतीयमूलसम्भूतः कपूरः विंशतितमे अप्रैलमासस्य दिने काठमाण्डूनगरं प्राप्तवान्। बालेनसरकारस्य निर्माणानन्तरं काठमाण्डूनगरं आगतः सः सर्वाधिकः वरिष्ठः विदेशी कूटनीतिज्ञः आसीत्। काठमाण्डुस्थितस्य अमेरिकीदूतावासस्य विज्ञप्तौ उक्तं यत् नेपालप्रवासकाले तेन सत्तारूढदलस्य राष्ट्रियस्वतन्त्रपार्टी इत्यस्य अध्यक्षेन रविलामिछानेन, विदेशमन्त्रिणा शिशिरखनालेन तथा वित्तमन्त्रिणा डॉ स्वर्णिमवाग्ले इत्येतेषु पृथक् पृथक् मिलनानि कृतानि।

कपूरः अमेरिकादेशे आयोज्यमाने निवेशसम्मेलने सहभागीभवितुं गच्छन्तेन नेपालीप्रतिनिधिमण्डलेन सह अपि सम्भाव्यअमेरिकी निवेशावकाशान् विषये विमर्शं कृतवान्। तदतिरिक्तं तेन अमेरिकी तथा नेपाली निजीक्षेत्रस्य प्रतिनिधिभिः सह संवादं कृत्वा नेपालस्य शीघ्रं विकासं गच्छतः प्रौद्योगिकीक्षेत्रस्य सहयोगसम्भावनाः अन्विष्टाः।

स्वस्य दौरस्य काले तेन नेपालदेशस्य ऐतिहासिकसांस्कृतिकधरोहराणाम् अपि अवलोकनं कृतम्। सः बौद्धनाथस्तूपं तथा पाटनदरबारस्क्वायर् इत्येतयोः भ्रमणं कृतवान्। एतासां धरोहराणां संरक्षणार्थं अमेरिका ‘एम्बेसडर्स् फण्ड् फॉर् कल्चरल् प्रिजर्वेशन’ इत्यस्य माध्यमेन सहयोगं प्रददाति।

---------------

हिन्दुस्थान समाचार