उपराष्ट्रपतिः राधाकृष्णन्-महोदयः गुरुवासरे उत्तराखण्डस्य प्रवासे
नवदेहली, 22 अप्रैलमासः (हि.स.)।उपराष्ट्रपतिः सी. पी. राधाकृष्णन् महोदयः २३ एप्रिल-दिनाङ्के (गुरुवासरे) उत्तराखण्डस्य प्रवासं करिष्यति। ​उपराष्ट्रपति-सचिवालयस्य सूचनानुसारं, उपराष्ट्रपतिकः अखिलभारतीय-आयुर्विज्ञान-संस्थानम्, ऋषिकेश इत्यस्य षष्ठे दीक
उपराष्ट्रपति सी. पी. राधाकृष्णन बुधवार को कार्यक्रम को संबोधित करते हुए


नवदेहली, 22 अप्रैलमासः (हि.स.)।उपराष्ट्रपतिः सी. पी. राधाकृष्णन् महोदयः २३ एप्रिल-दिनाङ्के (गुरुवासरे) उत्तराखण्डस्य प्रवासं करिष्यति।

​उपराष्ट्रपति-सचिवालयस्य सूचनानुसारं, उपराष्ट्रपतिकः अखिलभारतीय-आयुर्विज्ञान-संस्थानम्, ऋषिकेश इत्यस्य षष्ठे दीक्षान्तसमारोहे मुख्यअतिथिरूपेण सम्मिलितः भविष्यति, स्नातकच्छात्रान् च सम्बोधयिष्यति। अस्मिन् दीक्षान्तसमारोहे संस्थानस्य विभिन्नपाठ्यक्रमाणां ३८६ छात्र-छात्राभ्यः उपाधयः प्रदास्यन्ते।

​समारोहे राज्यपालः लेफ्टिनेण्ट् जनरल् (निवृत्तः) गुरमीत सिंहः, मुख्यमन्त्री पुष्कर सिंह धामी, स्वास्थ्य-एवं-परिवारकल्याण-राज्यमन्त्री अनुप्रिया पटेल महोदया च सह अनेके गणमान्याः महानुभावाः उपस्थिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार