हमीरपुरे 33 पंचायतान् त्यक्त्वा अन्येषां सर्वेषां संशोधित मतदातृसूच्यः सज्जाः
हमीरपुरम्, 22 अप्रैलमासः (हि.स.)।उपायुक्तः तथा जिला-निर्वाचन-अधिकारी (पञ्चायत) गन्धर्वा-राठौडः अवदत् यत् जनपदे विभाजन-पुनर्गठनाभ्यां प्रभाविताः त्रयस्त्रिंशत् (३३) ग्राम-पञ्चायताः— बडा, कोटला-चिल्लियां, जलाड़ी, उट्टप, गाहली, टिल्लू, चमराल, नघूं, लंज
हमीरपुरे 33 पंचायतान् त्यक्त्वा अन्येषां सर्वेषां संशोधित मतदातृसूच्यः सज्जाः


हमीरपुरम्, 22 अप्रैलमासः (हि.स.)।उपायुक्तः तथा जिला-निर्वाचन-अधिकारी (पञ्चायत) गन्धर्वा-राठौडः अवदत् यत् जनपदे विभाजन-पुनर्गठनाभ्यां प्रभाविताः त्रयस्त्रिंशत् (३३) ग्राम-पञ्चायताः— बडा, कोटला-चिल्लियां, जलाड़ी, उट्टप, गाहली, टिल्लू, चमराल, नघूं, लंजयाणा, उटपुर, पुरली, समीरपुर, संगरोह-कलां, धमरोल, गरसाहड़, खरवाड़, कड़ोहता, भौंखर, जख्योल, दसमल, देई-का-नौण, कुठेड़ा, मझोग-सुल्तानी, टिब्बी, ख्याह-लोहाखरियां, छयोड़ीं, बफड़ीं, री, चबूतरा, करोट, दाड़ला, बलेहू, बड़ेई— एतान् विहाय अन्यासां सर्वासां पञ्चायतानां संशोधिताः मतदातृसूचयः सिद्धाः सन्ति।

एताः संशोधिताः मतदाता-सूचयः १ एप्रिल् २०२६ इत्यस्य अर्हता-तिथेः आधारेण निर्मिताः सन्ति।

उपायुक्तः उक्तवान् यत् यदि एतासु संशोधितासु मतदाता-सूचिषु कस्यचित् कारणात् कस्यापि पात्र-व्यक्तेः नाम न समाविष्टम् अस्ति, तर्हि सः स्वनाम समावेशार्थं निर्वाचन-अधिसूचना-प्रकाशन-तिथेः पर्यन्तं जिला-निर्वाचन-अधिकारी (पञ्चायत) कार्यालये निर्दिष्ट-प्रपत्रेण द्वि-रूप्यक-शुल्केन सह आवेदनं कर्तुं शक्नोति।

---------------

हिन्दुस्थान समाचार