देवरिया: प्राथमिक विद्यालये प्रतापाद्रक्षणमाधृत्य विद्यार्थिभ्यो जागरूकता विहिता
देवरिया, 23 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य देवरियाजनपदे भलूअनीविकासखण्डस्थिते कुशमहांप्राथमिकविद्यालये आरोग्यभारतीसंस्थायाः अधीनतया गुरुवासरे उष्णाघातात् रक्षणार्थं जागरूकताकार्यक्रमः आयोजितः। अस्मिन् अवसरे बालकेभ्यः ग्रीष्मऋतौ सुरक्षितरूपेण
फोटो


फोटो  विद्यालय के बच्चो का


देवरिया, 23 अप्रैलमासः (हि.स.)।

उत्तरप्रदेशस्य देवरियाजनपदे भलूअनीविकासखण्डस्थिते कुशमहांप्राथमिकविद्यालये आरोग्यभारतीसंस्थायाः अधीनतया गुरुवासरे उष्णाघातात् रक्षणार्थं जागरूकताकार्यक्रमः आयोजितः।

अस्मिन् अवसरे बालकेभ्यः ग्रीष्मऋतौ सुरक्षितरूपेण कथं वर्तितव्यम् इति आवश्यकसूचनाः प्रदत्ताः।

कार्यक्रमं सम्बोधयन् आरोग्यभारत्याः प्रान्तीयोपाध्यक्षः डॉ अजीतनारायणमिश्रः उक्तवान् यत् उष्णाघातः गम्भीरा प्राणघातका च अवस्था भवितुं शक्नोति, अतः अस्मात् रक्षणं अत्यावश्यकम्। तेन बालकान् उपदिष्टम् यत् तीव्रसूर्यतापे बहिर्गमनसमये पूर्णवस्त्राणि धारयन्तु, शिरः च तौलियेन टोपीया वा आच्छादयन्तु। पर्याप्तमात्रया जलं अन्यानि तरलपदार्थानि च सेवनं कुर्वन्तु।

तेन उक्तं यत् ग्रीष्मऋतौ ककडी, खीरा, तरबूज, सन्तरम् इत्यादयः फलाः शरीरं शीतलं कुर्वन्ति, अतः तेषां सेवनं अधिकं कर्तव्यम्। निम्बूपानीयम्, शिकंजी, जलजीरादयः पेयपदार्थाः अपि शरीरे जलाभावं पूरयितुं सहायकराः भवन्ति। तेन एतत् अपि उक्तं यत् अतीव उष्णं तैलयुक्तं भोजनं परित्यज्य मद्यनशीलेषु पदार्थेषु च सेवनं न कर्तव्यम्।

डॉ मिश्रः अभिभावकान् अपि सचेतितवान् यत् सूर्यतापे स्थितेषु वाहनिषु बालकान् कदापि एकाकिनः न स्थापयन्तु, यतः तेन गम्भीरः आपद्भवितुं शक्नोति। गृहेषु वायोः सञ्चारः भवेत् इति कृते वातायनानि उद्घाटितानि धारयन्तु। तेन उक्तं यत् “प्रतिषेध एव उपचारः” अतः सावधानतया एव अस्मात् संकटात् सुरक्षिताः भवितुं शक्यते।

कार्यक्रमस्य अवधौ बालकेभ्यः स्वास्थ्यवर्धकपेयपदार्थाः अपि वितरिताः। कार्यक्रमस्य संचालनं जिलाप्रचारप्रमुखः पुष्पराजतिवारी कृतवान्। अस्मिन् अवसरि डॉ श्वेता, गरिमातिवारी, अञ्जलिदुबे, शशिभूषणमिश्र, नवीन, आशुतोषदुबे, भाजपा चिकित्साप्रकोष्ठस्य मण्डलसंयोजकः डॉ उपेन्द्रकुमारगिरी, गुलाबपाण्डेय, प्रशान्तकुमार, सन्तोषकुमार, रुद्रांशकुमार, डॉ रामप्रवेश, डॉ अनिलकुमारमणि तथा डॉ अमरनाथपाण्डेय उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार