Enter your Email Address to subscribe to our newsletters

भारतीयक्रिकेटस्य महान् क्रीडकः सचिन तेंदुलकरस्य जन्मदिनं प्रति वर्षं एप्रिलमासस्य चतुर्विंशतितमे दिने देशव्यापिनि उत्सववत् आचर्यते। संवत्सरे १९७३ अस्मिन् दिने जातः सचिनः कोटिशः क्रिकेटप्रेमिभिः “क्रिकेटस्य देवः” इति मान्यते, तस्य अस्मिन् विशेषे दिने प्रशंसकेषु विशेषः उत्साहः दृश्यते।
सचिन तेंदुलकरः स्वस्य दीर्घे अन्तर्राष्ट्रीय-क्रीडाजीवने बहूनि ऐतिहासिक-कीर्तिमानानि स्थापितवान् तथा भारतीयक्रिकेटं नूतन-शिखराणि प्रति नीतवान्। सः अन्तर्राष्ट्रीय-क्रिकेटे शत-शतकानि कृतवान् एकमेवः क्रीडकः अस्ति, यत् तस्य महानतां प्रकाशयति।
तस्य बल्लेबाजी-शैली, अनुशासनं तथा क्रीडायाः प्रति समर्पणभावः तं केवलं भारतदेशे न, अपि तु सम्पूर्णे विश्वे प्रेरणास्रोतं कृतवान्। भारतीयक्रिकेट-दले क्रीडन् सः अनेकाः स्मरणीयाः पार्याः कृतवान् तथा देशाय अनेकाः ऐतिहासिक-विजयाः दत्तवान्।
अद्यापि सचिन तेंदुलकरः नूतनपीढ्याः क्रीडकानां कृते आदर्शः अस्ति। तस्य जन्मदिने सामाजिक-माध्यमेभ्यः आरभ्य क्रिकेट-जगति सर्वत्र तस्मै शुभाशयाः प्रदीयन्ते तथा तस्य योगदानं स्मर्यते।
---
महत्वपूर्णाः घटनाः
१८७७ - रूसदेशेन ओटोमन-साम्राज्यस्य विरुद्धं युद्धस्य घोषणा कृता।
१८९८ - स्पेन्देशेन अमेरिकादेशस्य विरुद्धं युद्धस्य घोषणा कृता।
१९२० - पोलैण्डदेशस्य सेनया यूक्रेनदेशे आक्रमणं कृतम्।
१९२६ - बर्लिन-सन्धेः हस्ताक्षरं कृतम्।
१९५४ - ब्रिटिश-सरकारेण कीनियादेशस्य विद्रोहिनां विरुद्धं कठोर-कार्यवाह्याः आदेशः दत्तः।
१९५४ - आस्ट्रेलिया-सोवियत-संघयोः राजनयिक-सम्बन्धाः समाप्ताः।
१९६० - दक्षिण-पर्शियायां भूकम्पे पञ्चशतानि जनानां मृत्युर्घटिता।
१९६२ - एमआईटी-संस्थया प्रथमवारं उपग्रहद्वारा दूरदर्शन-सङ्केतः प्रेषितः।
१९६७ - सोवियत-संघस्य अन्तरिक्षयात्री व्लादिमीर-कोमारोव अन्तरिक्ष-अभियाने मृतः।
१९७० - चीनदेशस्य प्रथमः उपग्रहः “डांग फांग हांग” प्रक्षिप्तः।
१९८२ - सिनाई-प्रायद्वीपः पुनः मिस्रदेशाय प्रत्यर्पितः।
१९९८ - क्लोन-मेढया डॉली नाम्ना स्वस्थ-मेढशिशोः जन्म अभवत्।
२००२ - अर्जेण्टिनादेशे बैंकाः अनिश्चितकालपर्यन्तं बन्दाः।
२००६ - नेपालदेशे संसद् पुनः स्थापितः।
२००७ - हमास-संगठनेन इस्रायलदेशे आक्रमणं कृत्वा युद्धविरामः भङ्गः।
२००८ - नेपालदेशे नूतन-सर्वकारस्य गठनस्य घोषणा कृता।
२०१३ - बांग्लादेशस्य ढाका-नगर्यां भवन-पतनात् बहूनां जनानां मृत्युर्घटिता।
---
जन्मानि
१८८८ - विष्णु राम मेधी – भारतीय-राजनीतिज्ञः तथा असम-प्रदेशस्य द्वितीयः मुख्यमंत्री।
१९०८ - वायलेट अल्वा – भारतीय-अधिवक्ता, पत्रकारा, राजनीतिज्ञा च।
१९०९ - टीका राम पालीवाल – राजस्थानस्य भूतपूर्वः मुख्यमंत्री।
१९२८ - राजकुमार – प्रसिद्धः कन्नड-अभिनेता।
१९२९ - शम्मी – भारतीय-चलच्चित्र-अभिनेत्री।
१९३४ - डी. जयकान्तन – प्रसिद्धः साहित्यकारः।
१९३८ - मैक मोहन – हिन्दी-चलच्चित्र-अभिनेता।
१९४० - अजीज कुरैशी – मिजोरम-राज्यस्य भूतपूर्वः राज्यपालः।
१९५६ - शरद अरविन्द बोबडे – भारतस्य भूतपूर्वः मुख्य-न्यायाधीशः।
१९५६ - तीजनबाई – पण्डवानी-शैली-गायिका।
१९७३ - सचिन तेंदुलकर – भारतीय-क्रिकेट-क्रीडकः।
१९७३ - प्रमोद सावन्त – गोवा-प्रदेशस्य मुख्यमंत्री।
१९४५ - लैरी टेस्लर – अमेरिकी कम्प्यूटर-विज्ञान-विशेषज्ञः।
---
निधन
१९३४ - सी. शंकरन नायर – भारतीय-न्यायाधीशः।
१९४२ - दीनानाथ मंगेशकर – प्रसिद्धः गायकः।
१९४४ - शिवप्रसाद गुप्त – ‘दैनिक आज’ पत्रस्य संस्थापकः।
१९६० - अन्ना साहब भोपटकर – लेखकः।
१९७२ - जामिनी रॉय – प्रसिद्धः चित्रकारः।
१९७४ - रामधारी सिंह ‘दिनकर’ – हिन्दी-कविः।
२००९ - महात्मा रामचन्द्र वीर – लेखकः, वक्ता च।
२०११ - सत्य साईं बाबा – आध्यात्मिक-गुरुः।
२०२२ - के. शंकरनारायणन – महाराष्ट्रस्य भूतपूर्वः राज्यपालः।
---
महत्वपूर्णः दिवसः
मानव-एकता-दिवसः।
हिन्दुस्थान समाचार