Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 अप्रैलमासः (हि. स.)। पश्चिमबङ्गविधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणस्य मतदानस्य मध्ये मुर्शिदाबाद जिल्लायाः डोमकलक्षेत्रे माकपा तथा तृणमूल कांग्रेस समर्थकानां मध्ये तनावः संघर्षश्च अभवत्। एतत् विषयं गम्भीरतया गृह्णन् निर्वाचनायोगः सम्बन्धितप्रशासनाधिकाऱिभ्यः कार्यवृत्तान्तं (रिपोर्टम्) आहृतवान्।
बुधवासरस्य रात्रेः आरभ्य डोमकलप्रदेशे उभयोः पक्षयोः समर्थकानां मध्ये विवादः संघर्षश्च वर्तते स्म। गुरुवासरे प्रातः रायपुरक्षेत्रे माकपासमर्थकानां मतदानं कर्तुं निरोधनं कृतम् इति आरोपः कृतः। एतेषु आरोपेषु तृणमूलकांग्रेसकार्यकर्तॄणां नाम प्रकटितम्।
स्थानीयजनाः अपि आरोपं कृतवन्तः यत् आरम्भे केन्द्रीयबलानि निष्क्रियाणि आसन् तथा राज्यपुलिसतः अपि त्वरितसाहाय्यं न प्राप्तम्। किन्तु पश्चात् स्थितेः विकसनस्य सूचना प्राप्ते राज्यपुलिसः केन्द्रीयसुरक्षाबलानि च घटनास्थलं प्राप्तवन्तः।
उक्तं यत् सुरक्षाबलैः माइकद्वारा जनाः आश्वासिताः, मतदातारः निर्भयतया मतदानं कुर्वन्तु इति अपि आहूताः। अनन्तरं केन्द्रीयबलस्य संरक्षणे वामसमर्थकमतदातारः मतदानकेन्द्रं गत्वा मतदानं कृतवन्तः। अस्य घटनायाः विषये तृणमूल कांग्रेस पक्षतः अद्यावधि काचित् आधिकारिकप्रतिक्रिया न प्राप्ता।
यस्मिन् २१७ सङ्ख्यकमतदानकेन्द्रे माकपासमर्थकमतदातारः मतदानात् निरुद्धाः इति आरोपः कृतः, तत्र महकमा पुलिसाधिकारी शुभमबजाज आगत्य स्थितेः परीक्षणं कृतवान्। तेन केन्द्रीयबलस्य निष्क्रियतायाः आरोपाः निराकृताः। अनन्तरं हुमायूं कबीर अपि तस्मिन् मतदानकेन्द्रे आगतवान्। अस्मिन् समये कतिपयाः मतदातारः तम् आवृत्य विरोधप्रदर्शनं कृत्वा असन्तोषं व्यक्तवन्तः।
डोमकलस्य एषा घटना प्रथमचरणस्य मतदानस्य मध्ये निर्वाचनपरिस्थितिं उष्णीकृतवती। निर्वाचनायोगः विस्तृतरिपोर्टं याचित्वा निष्पक्षमतदानस्य सुनिश्चित्यर्थं निर्देशान् दत्तवान्।
हिन्दुस्थान समाचार