Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणे षोडशजिलानां १५२ आसन्दिषु गुरुवासरे मतदानं प्रवर्तते। अस्मिन् मध्ये निर्वाचनप्रक्रियायाः अवलोकनार्थं आगतं अन्तरराष्ट्रीयप्रतिनिधिमण्डलं दार्जिलिंग जिल्लायाः अनेकानि मतदानकेन्द्राणि परिदृष्ट्य वर्तमानव्यवस्थायाः निरीक्षणं कृतवान्।
निर्वाचनायोगस्य अधिकारिभिः सह आगतं प्रतिनिधिमण्डलं सिलीगुड़ी तथा माटीगाड़ाक्षेत्रयोः कतिपयानि मतदानकेन्द्राणि अपि परिदृष्टवान्। आयोगेन प्रदत्तसूचनानुसारं प्रतिनिधयः मतदानकेन्द्रेषु सुव्यवस्थितव्यवस्थां उत्सवसदृशं वातावरणं च प्रशंसितवन्तः।
तेन मतदानकेन्द्रेषु वेबप्रसारणव्यवस्था, दिव्याङ्गमतदातृभ्यः व्हीलचेयरसुविधा, पेयजलम्, छाया, उपवेशनव्यवस्था तथा वरिष्ठनागरिकाणां कृते विशेषव्यवस्थाः अपि प्रशंसिताः। आयोगेन उक्तं यत् एताः व्यवस्थाः न्यूनतमावश्यकसुविधारूपेण सुनिश्चिताः सन्ति।
निर्वाचनायोगस्य अन्ताराष्ट्रियनिर्वाचनपर्यटककार्यक्रम २०२६ अन्तर्गतं त्रयोदशसदस्यीयं प्रतिनिधिमण्डलं पश्चिमबङ्गं प्राप्तम्। अस्मिन् नामीबिया, जॉर्जिया, नेपाल, फिलीपीन्स, स्विट्जरलैण्ड, केन्या इत्यादिदेशानां तथा अन्तरराष्ट्रीयलोकतान्त्रिकसंस्थानां प्रतिनिधयः सन्ति। आयोगस्य मतानुसारं अस्य कार्यक्रमस्य उद्देशः भारतस्य उत्कृष्टनिर्वाचनव्यवस्थायाः प्रदर्शनं कर्तुं विश्वस्य निर्वाचनप्रबन्धनसंस्थानैः सह सहयोगं वर्धयितुं च अस्ति।
अपरत्र विधानसभायां नेता प्रतिपक्षः शुभेंदु अधिकारी स्वगृहे नंदीग्राम क्षेत्रे विभिन्नमतदानकेन्द्राणि परिदृश्य निरीक्षणं कुर्वन् अस्ति। सः माध्यमैः सह संवादे उक्तवान् यत् गतवारस्य अपेक्षया अस्मिन् वर्षे मतदानप्रक्रिया अद्यावधि शान्तिपूर्णा वर्तते।
तेन आरोपः कृतः यत् पूर्वनिर्वाचनेषु मतदानात् पूर्वमेव मतदातॄणां भयप्रदर्शनताडनादिकाः घटनाः भवन्ति स्म, किन्तु अस्मिन् समये व्यापकसुरक्षाव्यवस्थया तादृशक्रियाः निरुद्धाः सन्ति। सः आशां व्यक्तवान् यत् सम्पूर्णदिनं मतदानं शान्तिपूर्वकं सम्पन्नं भविष्यति।
शुभेंदु अधिकारी अस्मिन् निर्वाचने नंदीग्राम सह भवानीपुर आसन्द्यात् अपि स्पर्धां करोति, यत्र तस्य प्रतिस्पर्धा ममता बनर्जी इत्यया सह अस्ति। भवानीपुरे द्वितीयचरणे २९ एप्रिल् दिने मतदानं भविष्यति, यदा नन्दीग्रामे अद्य मतदानं प्रवर्तते।
एतस्मिन् काले भारतीय जनता पार्टी तथा तृणमूल कांग्रेस इत्येतयोः अनेकाः प्रमुखनेतारः प्रातः मतदानं कृत्वा पश्चात् विभिन्नक्षेत्रेषु भ्रमणम्आरब्धवन्तः। अद्यावधि अधिकांशस्थानेषु मतदानं शान्तिपूर्णं कथ्यते, सुरक्षा बलानि च पूर्णतया सज्जानि सन्ति। शुभेंदु अधिकारी नन्दीग्रामे तथा अग्निमित्रा पॉल आसनसोलक्षेत्रे मतदानानन्तरं शान्तिपूर्णनिर्वाचनस्य आशां व्यक्तवन्तौ।
हिन्दुस्थान समाचार