Enter your Email Address to subscribe to our newsletters

- काहिरायां जातायाः 11तमायाः संयुक्त रक्षा समितेः कृतमुपवेशनं, रक्षा सहयोगाय प्रारूपः सज्जः
नव दिल्ली, 23 अप्रैलमासः (हि.स.)। भारतस्य मिस्रदेशस्य च मध्ये काहिरा नगरे आयोजितायां एकादश्यां संयुक्तरक्षासमितेः (जेडीसी) सभायां द्विपक्षीयरक्षासहयोगवृद्धये विस्तृतविमर्शः अभवत्। उभयपक्षौ रक्षाउद्योगे सहयोगं वर्धयितुं योजनाबद्धरूपेण सहकार्यं कर्तुं च सम्मतौ अभवताम्। रक्षाउद्योगसहयोगः भारतमिस्रयोः रक्षासम्बन्धेषु महत्त्वपूर्णः अङ्गः भवति, यत्र उभौ पक्षौ रक्षाविनिर्माणक्षेत्रे सहयोगस्य अवसरान् अन्विष्यतः।
भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं संयुक्तसचिवः (अन्तरराष्ट्रीयसहयोगः) अमिताभप्रसादः कृतवान्, अस्मिन् च रक्षामन्त्रालयस्य सशस्त्रबलानां च वरिष्ठाः अधिकारीणः सम्मिलिताः आसन्। मिस्रदेशस्य प्रतिनिधिमण्डले तत्रस्थसशस्त्रबलानां रक्षामन्त्रालयस्य च अधिकारीणः सहभागीभूताः।
उभयपक्षौ पूर्वजेडीसीसभातः अनन्तरं जातां प्रगतिं समीक्ष्य रक्षासहयोगाय एकं मार्गमानचित्रं निर्मितवन्तौ। भारतः मिस्रदेशश्च २०२६-२७ वर्षयोः कृते द्विपक्षीयरक्षासहयोगयोजनायां सम्मतौ अभवताम्। अस्याः योजनायाः उद्देश्यः सैन्यसम्पर्कतन्त्रवृद्धिः, संयुक्तप्रशिक्षणस्य सुदृढीकरणम्, समुद्रसुरक्षासहयोगस्य वर्धनम्, सैन्याभ्यासानां विस्तारः तथा तन्त्रज्ञानविकासे सहयोगः इति अस्ति।
भारतीयप्रतिनिधिमण्डलेन भारतीयरक्षाउद्योगस्य तीव्रवर्धमाननिर्माणक्षमतायाः विषये प्रस्तुति दत्ता, यस्मिन् भारतस्य उत्पादनं विंशतिबिलियनडॉलरात् अधिकं जातम् इति निर्दिष्टम्। अपि च भारतः शताधिकेषु देशेषु प्रायः चतुर्बिलियनडॉलरपरिमितं उत्पादनं निर्याति करोति इति अपि उक्तम्।
सभायां प्रथमवारं नौसेना-नौसेनापरिकरवार्ता अपि अभवत्। हिन्दमहासागरप्रदेशे नौवहनस्वातन्त्र्यस्य प्रोत्साहने भारतीयनौसेनायाः भूमिका प्रशंसिता, तथा च समुद्रसुरक्षावर्धने भारतस्य सूचनासंलयनकेन्द्रस्य महत्त्वपूर्णा भूमिका अपि उल्लिखिता।
भारतीयप्रतिनिधिमण्डलं मिस्रदेशस्य वायुसैन्यस्य कमाण्डरं लेफ्टिनेंट् जनरल् अमरअब्देलरहमानसकरं अपि अभ्यगच्छत्। तत्र उभयोः देशयोः वायुसैन्ययोः मध्ये घनिष्ठसहयोगाय तं धन्यवादं व्यक्तवन्तः।
भारतीयप्रतिनिधिमण्डलेन हेलीपोलिस् युद्धस्मारके अपि पुष्पाञ्जलिः अर्पिता, यत्र प्रथमद्वितीयविश्वयुद्धयोः काले बलिदानं दत्तवन्तः भारतीयवीराः श्रद्धया स्मृताः।
एषा सभा उभयोः देशयोः मध्ये सन्निकटसम्बन्धानां पुनः पुष्टि कृत्वा क्षेत्रीयसुरक्षा स्थैर्ययोः प्रति तयोः पारस्परिकप्रतिबद्धतां सुदृढीकृतवती।-----------
हिन्दुस्थान समाचार