शिशु विद्या मंदिरे मनी वीर कुंवर सिंहस्य जयंती
रामगढ़म्, 23 अप्रैलमासः (हि.स.)। नगरस्य गोला-मार्गे स्थिते रामप्रसाद-चन्द्रभान-सरस्वती-शिशु-विद्यामन्दिरस्य वन्दनासभागारे गुरुवासरे महान् स्वतन्त्रतासेनानी वीर कुंवर सिंह इत्यस्य जयन्ती उत्साहपूर्वकं समारब्धा। अस्मिन् अवसरः विद्यालयस्य सर्वे शिक
कार्यक्रम में शामिल लोग


कार्यक्रम में शामिल बच्चे


रामगढ़म्, 23 अप्रैलमासः (हि.स.)।

नगरस्य गोला-मार्गे स्थिते रामप्रसाद-चन्द्रभान-सरस्वती-शिशु-विद्यामन्दिरस्य वन्दनासभागारे गुरुवासरे महान् स्वतन्त्रतासेनानी वीर कुंवर सिंह इत्यस्य जयन्ती उत्साहपूर्वकं समारब्धा।

अस्मिन् अवसरः विद्यालयस्य सर्वे शिक्षकाः छात्राः छात्र्यः च उपस्थिताः आसन्। कार्यक्रमस्य शुभारम्भः वीरकुंवरसिंहस्य चित्रे माल्यार्पणेन पुष्पार्चनेन च अभवत्। विद्यालयस्य वरिष्ठाचार्यैः तस्य व्यक्तित्वे प्रकाशः स्थापितः, ते उक्तवन्तः यत् सः १८५७ तमे वर्षे प्रथमस्वातन्त्र्यसंग्रामस्य महानायकः आसीत्, यः स्वस्य वृद्धावस्थायामपि अदम्यसाहसं प्रदर्श्य आङ्ग्लशासनस्य विरुद्धं संग्रामं कृतवान्।

अस्मिन् अवसरः छात्रछात्राभिः सांस्कृतिककार्यक्रमाः प्रस्तुताः, यत्र देशभक्तिगीतानि भाषणानि च माध्यमेन वीरकुंवरसिंहस्य जीवनस्य प्रेरणादायकाः घटनाः सजीवरूपेण दर्शिताः। बालकाः तस्य साहसं त्यागं नेतृत्वशक्तिं च प्रदर्श्य सर्वान् उपस्थितान् भावविभोरान् अकुर्वन्।

कार्यक्रमे शिक्षकैः अपि तस्य जीवनसम्बद्धाः महत्त्वपूर्णाः प्रसङ्गाः साझा कृताः तथा विद्यार्थिनः तस्य आदर्शान् अनुसर्तुं प्रेरिताः। ते उक्तवन्तः यत् वीरकुंवरसिंहस्य जीवनं अस्मान् शिक्षयति यत् कठिनतमासु परिस्थितिषु अपि दृढनिश्चयेन देशभक्त्या च सफलता प्राप्तुं शक्यते।

---------------

हिन्दुस्थान समाचार