नेपाल-सर्वकारेण एकविंशति-होराभ्यन्तरे एव संसद्-अधिवेशन-आह्वानस्य निर्णयः स्थगितः
काठमाण्डू-नगरम्, २३ अप्रैलमासः (हि.स.)। नेपाल-सर्वकारेण संसद्-अधिवेशन-आह्वानाय कृतः पूर्व-निर्णयः केवलं २४ होराभ्यन्तरे एव प्रत्याहृतः इति सूचना प्राप्ता। बुधवासरे राष्ट्रपति-भवनात् सूचना निर्गता आसीत् यत् ३० अप्रैलतः संसदः उभय-सदनयोः संयुक्त-अधिव
नेपाल के राष्ट्रपति रामचन्द्र पौडेल


काठमाण्डू-नगरम्, २३ अप्रैलमासः (हि.स.)। नेपाल-सर्वकारेण संसद्-अधिवेशन-आह्वानाय कृतः पूर्व-निर्णयः केवलं २४ होराभ्यन्तरे एव प्रत्याहृतः इति सूचना प्राप्ता।

बुधवासरे राष्ट्रपति-भवनात् सूचना निर्गता आसीत् यत् ३० अप्रैलतः संसदः उभय-सदनयोः संयुक्त-अधिवेशनम् आह्वानं भविष्यति। किन्तु अधुना मन्त्रिपरिषदः कथनानन्तरं एषः निर्णयः स्थगितः इति पुनः सूचना प्रदत्ता।

प्रधानमन्त्रिण: बालेन्द्र-शाहस्य अध्यक्षतायां सम्पन्नायां मन्त्रिपरिषद्-सभायां संसद्-अधिवेशन-स्थगनस्य अनुमोदनं कर्तुं निर्णयः कृतः। तदनन्तरं राष्ट्रपति-भवनात् पुनः सूचना निर्गता यत् पूर्वनिर्धारितः ३० अप्रैलतः प्रस्तावितः अधिवेशनः “विशेष-कारणवशात्” स्थगितः अस्ति।

राष्ट्रपति-भवनस्य सूचनानुसारं, नेपाल-संविधानस्य अनुच्छेदः ९३(१) इत्यनुसारेण संसद्-सत्रस्य आह्वानं स्थगनं च मन्त्रिपरिषदः कथनानुसारं राष्ट्रपतिना क्रियते।

एतत् त्वरित-निर्णय-परिवर्तनं देशस्य राजनैतिक-वृत्ते चर्चां जनयति स्म।

हिन्दुस्थान समाचार / अंशु गुप्ता