निर्वाचनम् 26: प्रथमचरणस्य मतदाने प्रधानमंत्री मोदिनः आह्वानं, कीर्तिमानमतदानाय गृहेभ्यो निर्गत्य मतदानं कर्तुम् अनुरोधः
कोलकाता, 23 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणस्य मतदानं गुरुवासरे प्रातः १५२ विधानसभासु आरब्धम्। मतदानारम्भात् कतिपयेषु निमेषेषु एव भारतस्य प्रधानमन्त्री नरेन्द्र मोदी जनान् बहुसंख्यया मतदानं कर्तुं प्रार्थितवा
बंगाल में विकास परियोजनाओं का शिलान्यास करते पीएम मोदी


कोलकाता, 23 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणस्य मतदानं गुरुवासरे प्रातः १५२ विधानसभासु आरब्धम्। मतदानारम्भात् कतिपयेषु निमेषेषु एव भारतस्य प्रधानमन्त्री नरेन्द्र मोदी जनान् बहुसंख्यया मतदानं कर्तुं प्रार्थितवान्। तेन एतत् “लोकतन्त्रस्य उत्सवः” इति उक्त्वा अधिकतमसहभागितां सुनिश्चितुं आग्रहः कृतः।

प्रधानमन्त्री मोदी सामाजिकमाध्यमेषु सन्देशं प्रसार्य उक्तवान् यत् पश्चिमबङ्गविधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानं अद्य प्रवर्तते। तेन राज्यस्य नागरिकान् उत्साहपूर्वकं मतदानं कर्तुम्आह्वानं कृतम्। विशेषतः यूनां महिलानां च अधिकसंख्यया मतदानकेन्द्रेषु आगमनाय अपि सः प्रार्थितवान्।

प्रथमचरणे राज्यस्य षोडशजिलानां १५२ आसन्दिषु मतदानं क्रियते। तेषु दार्जिलिंग, कलिम्पोंग, जलपाईगुड़ी, अलीपुरद्वार, कूचबिहार, उत्तरदिनाजपुर, दक्षिणदिनाजपुर, मालदा, मुर्शिदाबाद, बीरभूम, पश्चिमबर्धमान, पुरुलिया, बांकुड़ा, झाड़ग्राम, पश्चिममेदिनीपुर तथा पूर्वमेदिनीपुर इति जिलाः समाविष्टाः सन्ति।

निर्वाचनायोगेन स्वतन्त्रनिष्पक्षशान्तिपूर्णमतदानस्य सुनिश्चित्यर्थं राज्ये सर्वत्र प्रायः २४०० केन्द्रीयबलकंपन्यः नियुक्ताः। उपलब्धाङ्कानुसारं पूर्वमेदिनीपुरे सर्वाधिकाः २७३ कंपन्यः नियुक्ताः, पश्चिममेदिनीपुरे २७१ कंपन्यः स्थापिताः। अन्यत्र मुर्शिदाबादे २४०, बांकुड़ायां १९३, बीरभूमे १७६, मालदायां १७२, पुरुलियायां १५१ कंपन्यः अपि नियुक्ताः सन्ति।

अस्मिन् चरणे आहत्य४४,३७६ नज़रंदाज़ मतदानकेन्द्राणि निर्मितानि, तेषु २,९५८ सहायककेन्द्राणि सन्ति। तेषु ५,४८७ नगरप्रदेशेषु, ३५,९३१ ग्रामीणप्रदेशेषु च स्थितानि सन्ति। विशेषतया ५,६४४ मतदानकेन्द्राणि पूर्णतया महिला-कर्मचारिभिः सञ्चाल्यन्ते। अतिरिक्तरूपेण २०७ आदर्शमतदानकेन्द्राणि अपि स्थापितानि।

अस्मिन् चरणे कुलं १४७८ अभ्यर्थिनः स्पर्धायां सन्ति, तेषु १६७ महिला-अभ्यर्थिनः सन्ति। कूचबिहारदक्षिण, करंदीघी, इटाहार इत्येषु आसन्दिषु अधिकतमाः १५-१५ अभ्यर्थिनः सन्ति, यदा चन्द्रकोणासु न्यूनतमाः केवलं पञ्च अभ्यर्थिनः सन्ति।

मतदातृआङ्कानुसारं १०० वर्षाधिकवयस्काः ४०२५ मतदातारः सन्ति, ८५ वर्षाधिकवयस्काः द्विलक्षचतुर्सहस्र षट्शत अष्टादश (२,०४,६१८) मतदातारः सन्ति। दिव्याङ्गमतदातॄणां संख्या द्विलक्षत्रिपञ्चाशत्सहस्र द्विशतचत्वारिंशत् (२,५३,२४४) अस्ति।

एवं कठनसुरक्षाव्यवस्थायाः विस्तृतनिगराण्याः शीर्षनेतृत्वस्य आह्वानानां च मध्ये एषः प्रथमचरणस्य मतदानः राज्यस्य निर्वाचनदिशां निर्धारयितुं अत्यन्तं महत्त्वपूर्णः मन्यते।

हिन्दुस्थान समाचार