Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 अप्रैलमासः (हि.स.)।
राष्ट्रपतिः द्रौपदीमुर्मुः गुरुवासरे राष्ट्रपतिभवने आयोजिते समारोहे लाओपीडीआर, कांगो, नामीबिया तथा गिनीबिसाऊदेशानां राजदूतानां परिचयपत्राणि स्वीकृतवती।
राष्ट्रपतिसचिवालयस्य अनुसारं परिचयपत्रप्रस्तुतकर्तृषु लाओपीपुल्सडेमोक्रेटिकरिपब्लिकस्य राजदूता विथयाजायावोंग, कांगोलोकतान्त्रिकगणराज्यस्य राजदूता एमिलीअयाजामुशोबेकवा, नामीबियागणराज्यस्य उच्चायुक्तः विंगकमाण्डर् एलेक्सलुन्याजोटुकुहुपवेले (सेवानिवृत्तः) तथा गिनीबिसाऊगणराज्यस्य राजदूतः एंटोनियोसेरिफोएम्बालो इति सन्ति।
-----------
हिन्दुस्थान समाचार