Enter your Email Address to subscribe to our newsletters

रायपुरम्, 23 अप्रैलमासः (हि.स.)।मुख्यमन्त्री विष्णु देव साय इत्यस्य नेतृत्वे माओवादीमार्गं त्यक्त्वा समाजस्य मुख्यधारां प्रति प्रत्यागताः पुनर्वासिताः युवानः अधुना शासनस्य विविधयोजनानां व्यापकं लाभं प्राप्नुवन्ति।
प्रशासनेन एतेषां यूनां नूतनजीवनारम्भाय आवश्यकदस्तावेजानां सुविधानां च प्रदाने विशेषप्राथमिकता दीयते। शासनस्य सूचनानुसारं पुनर्वासितानां सशक्तीकरणार्थं तेषां कृते राशनकार्ड् आधारकार्ड् च अन्यानि आवश्यकदस्तावेजानि सुलभतया उपलभ्यन्ते।
अनेन सह उत्तमस्वास्थ्यसेवाभिः संयोजनार्थं आयुष्मानकार्ड् अपि निर्मीयन्ते येन ते आर्थिकचिन्तां विना उपचारं कर्तुं शक्नुवन्ति।
बीजापुरजनपदस्य जिला चिकित्सालये आयोजिते कार्यक्रमे पुनर्वासितेभ्यः युवेभ्यः आयुष्मानकार्ड् वितरितानि। एतेन कार्डेन विविधस्वास्थ्ययोजनानां अन्तर्गतं ते महत्त्वपूर्णं लाभं प्राप्स्यन्ति। दुर्लभगम्भीररोगाणां कृते पञ्चविंशतिलक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सासहायता अपि प्रदीयते।
तथा च लाभार्थिभ्यः योजनानां उपयोगप्रक्रियायाः विस्तृतं ज्ञानं अपि प्रदत्तम्।
आयुष्मानकार्डप्राप्त्यानन्तरं पुनर्वासितेषु युवसु उत्साहः आत्मविश्वासश्च स्पष्टतया दृष्टः। ते शासनप्रशासनयोः अस्य प्रयासस्य प्रशंसां कृत्वा उत्तमभविष्यदिशि अग्रे गन्तुम् इच्छां व्यक्तवन्तः।
----------------------
हिन्दुस्थान समाचार