लॉस-एञ्जिलिस-ओलम्पिक-२०२८ - क्रिकेट-स्टेडियम-निर्माणस्य प्रारम्भः, आई.सी.सी. द्वारा ऐतिहासिक-क्षणस्य स्वागतम्
लॉस-एञ्जिलिस-नगरम्, २३ अप्रैलमास: (हि.स.)। अन्तरराष्ट्रीय-क्रिकेट-परिषद् (आई.सी.सी.) इत्यनेन लॉस-एञ्जिलिस-ओलम्पिक-२०२८ (एल.ए.-२८) कृते क्रिकेट-स्टेडियम-निर्माण-कार्यस्य प्रारम्भस्य स्वागतं कृतम्, तथा एतत् क्रीडाजगतः कृते ऐतिहासिक-क्षणः इति घोषितम्।
एलए 2028 के लिए स्टेडियम निर्माण कार्य शुरू


लॉस-एञ्जिलिस-नगरम्, २३ अप्रैलमास: (हि.स.)। अन्तरराष्ट्रीय-क्रिकेट-परिषद् (आई.सी.सी.) इत्यनेन लॉस-एञ्जिलिस-ओलम्पिक-२०२८ (एल.ए.-२८) कृते क्रिकेट-स्टेडियम-निर्माण-कार्यस्य प्रारम्भस्य स्वागतं कृतम्, तथा एतत् क्रीडाजगतः कृते ऐतिहासिक-क्षणः इति घोषितम्।

कैलिफोर्निया-प्रदेशस्य लॉस-एञ्जिलिस-जनपदे पोमोना-नगरस्य फेयरप्लेक्स-प्रांगणे बुधवासरे भूमिपूजन-समारोहः आयोजितः। एषः प्रयास: १२८ वर्षाणां पश्चात् ओलम्पिक-क्रीडासु क्रिकेटस्य पुनरागमनस्य दिशि एकः महत्त्वपूर्णः मील-स्तम्भः इति मन्यते।

आई.सी.सी.-अध्यक्षः जय-शाहः स्वकीय-आधिकारिक-वक्तव्ये उक्तवान् यत् एतत् क्षणं क्रिकेट-क्रीडायाः तथा विश्वे स्थितानां कोटिशः प्रशंसकानां कृते अत्यन्तं उत्साहजनकम् अस्ति। सः अवदत् यत् क्रिकेट् निरन्तरं वैश्विक-क्रीडारूपेण स्वस्थानं सुदृढं कुर्वन् अस्ति, तथा ओलम्पिक-समावेशः गर्वस्य विषयः अस्ति।आई.सी.सी.-मुख्य-कार्यकारी-अधिकारी सञ्जोग-गुप्तः अपि एतं प्रयासम् “ऐतिहासिकम्” इति वर्णयन् उक्तवान् यत् अग्रिम-वर्षेषु अनेकाः महत्त्वपूर्णाः घटनाः भविष्यन्ति, यैः ओलम्पिकस्पर्धायां क्रिकेटक्रीडाया: पुनरागमनं अधिकं विशेषं भविष्यति। तेन उक्तं यत् ओलम्पिक-समावेशेन क्रीडायाः वैश्विक-स्तरे नवीन-परिचयः, विस्तृत-प्रसारः तथा सुदृढ-समर्थनं लप्स्यते।

अस्मिन् कार्यक्रमे एल.ए.-२८ उपाध्यक्षः (क्रीडा) निकोलो-कैम्प्रियानी, पोमोना-नगरस्य मेयरः टिम-सैण्डोवलः, लॉस-एञ्जिलिस-स्थितः भारतस्य महावाणिज्य-दूतः डॉ. के. जे. श्रीनिवासः, नाइट-राइडर्स-स्पोर्ट्स-सी.ई.ओ. वेङ्कटेश्-मैसूरः तथा फेयरप्लेक्स-अध्यक्षः वॉल्टर-मार्केजः च उपस्थिताः आसन्।

ओलम्पिकमध्ये क्रिकेट-इत्यस्य समावेशः क्रीडाविस्तारस्य दृष्ट्या अत्यन्तं महत्त्वपूर्णः मन्यते, विशेषतः अमेरिका-देशे नवीन-क्षेत्रेषु अस्य प्रसारार्थम्। अनेन युवजनानां मध्ये क्रीडा: प्रति रुचिः वर्धिष्यते तथा विश्वस्तरे क्रिकेट-प्रशंसकानां परिधिः विस्तीर्णः भविष्यति।

लॉस-एञ्जिलिस-ओलम्पिक-२०२८ मध्ये क्रिकेटक्रीडां टी-२० प्रारूपेण पुरुष-तथा महिला-वर्गयोः भविष्यति, येन प्रतियोगिता अधिका रोचकता च प्राप्ता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता