Enter your Email Address to subscribe to our newsletters

चेन्नई, 23 अप्रैलमासः (हि.स.)।
तमिलनाडुराज्यस्य सर्वासु २३४ विधानसभासु आसन्दिषु एकचरणीयमतदानं अद्य प्रातः सप्तवादने आरब्धम्। एषा प्रक्रिया सायं षड्वादनपर्यन्तं सम्पन्ना भविष्यति। मतदानारम्भात् एकघण्टापूर्वं प्रायोगिकमतदानं कृतम्।
प्रातः ६:५५ वादने चेन्नई नगरस्य तिरुवनमियूरक्षेत्रे स्थिते भारतीदासनविद्यालये निर्मिते मतदानकेन्द्रे तमिलनाडुराज्यस्य वरिष्ठः चलचित्रनटः अजीत कुमार आगत्य प्रातः सप्तवादने स्वमतं दत्तवान्। अनेन सः तमिलनाडौ प्रथममतदाता इति गौरवं प्राप्तवान्। तेन श्वेतवर्णीयं कोटसूटं धारितम् आसीत्। मतदानानन्तरं तेन स्वाङ्गुलौ आरोपितां मसीम् अपि दर्शितवान्। तमस्य दर्शनार्थं तस्य प्रशंसकानां बहुसङ्ख्यका भीडः अपि समागता।
प्रत्येकस्य मतदानकेन्द्रस्य अन्तः बहिः च सीसीटीवी-यन्त्राणि स्थापितानि सन्ति। मतदाननिगराणार्थं निर्वाचनायोगेन त्रिविधाः नियन्त्रणकक्षाः स्थापिताः। एतेषां सञ्चालनं मुख्यनिर्वाचनाधिकारी, जिलानिर्वाचनाधिकारी तथा निर्वाचनप्रबन्धनाधिकारीभिः क्रियते। मुख्यनिर्वाचनाधिकाऱिणः नियन्त्रणकक्षः चेन्नई सचिवालये नामक्कलकविग्नरभवने दशमे तले स्थितः अस्ति।
तमिलनाडौ अन्ना द्रविड़ मुनेत्र कषगम, द्रविड़ मुनेत्र कषगम, नाम तमिऴर कच्ची तथा तमिलग वेत्रि कषगम इत्येषां मध्ये चतुर्मुखस्पर्धा दृश्यते।
अस्मिन् निर्वाचने कुलं ४०२३ अभ्यर्थिनः सन्ति—तेषु ३५७९ पुरुषाः, ४४३ महिलाः, १ तृतीयलिङ्गीयः च। कुलमतदातॄणां संख्या ५,७३,४३,२९१ अस्ति। तेषु २,८०,३०,६५८ पुरुषाः, २,९३,०४,९०५ महिलाः, ७७२८ तृतीयलिङ्गीयमतदातारः च सन्ति।
मतदातृसूचिसंशोधनकार्यसमाप्त्यानन्तरं प्रायः ४० लक्षनामानि अपसारितानि। तथापि अस्मिन् समये मतदानप्रतिशतं ८५% अधिकं भविष्यति इति सम्भावना अस्ति। राज्ये ५.७३ कोट्यधिकाः जनाः मतदानाय पात्राः सन्ति।
निर्वाचनपर्यवेक्षकानां संख्या ३२६ अस्ति—सामान्यपर्यवेक्षकाः १३६, पुलिसपर्यवेक्षकाः ४०, व्ययपर्यवेक्षकाः १५० च। समग्रे तमिलनाडौ ७५,०६४ मतदानकेन्द्राणि स्थापितानि, तेषु ५,९४९ संवेदनशीलकेन्द्राणि सन्ति। ३२५ केन्द्राणि केवलं महिलाभिः सञ्चाल्यन्ते, ७५ केन्द्राणि युवाभिः सञ्चाल्यन्ते।
चेन्नईनगरस्य १६ विधानसभासु ९७५ स्थानेषु ४,०८५ मतदानकेन्द्राणि स्थापितानि। तेषु वेलाचेरीक्षेत्रे अधिकतमाः ३१५ केन्द्राणि, हार्बर (तुरैमुगम्) क्षेत्रे न्यूनतमाः १९२ केन्द्राणि सन्ति। तिरु-वी-का-नगरक्षेत्रस्य नम्माझ्वारपेट्-सरकारीविद्यालये एव १३ केन्द्राणि स्थापितानि।
अस्मिन् निर्वाचने प्रथमवारं मतदानं कुर्वतां मतदातॄणां संख्या १४.५९ लक्षाः अस्ति। मतदानकेन्द्रेषु पेयजलचिकित्सासुविधादयः मूलसुविधाः प्रदत्ताः। अधिकमतदातृयुक्तेषु आवासीयक्षेत्रेषु तत्रैव मतदानकेन्द्राणि निर्मितानि।
वरिष्ठनागरिकाणां दिव्याङ्गजनानां च कृते नगरबस्सु निःशुल्कयात्रासुविधा प्रदत्ता। विधानसभानिर्वाचने ४.८१ लक्षडाकमतपत्राणि उपयोजितानि। २३४ निर्वाचनक्षेत्रेषु १.०६ लक्ष ईवीएम-यन्त्राणि उपयुज्यन्ते।
सुरक्षार्थं ३००संस्थाः सीआरपीएफ-जवानाः ५,८७५ पुलिसकर्मिणः च नियुक्ताः सन्ति। जनप्रतिनिधित्वअधिनियमस्य धारा १३५-बी अनुसारं निर्वाचने वेतनसहितावकाशः दातव्यः अनिवार्यः। अवकाशं न ददतां संस्थानां विरुद्धं कार्यवाही भविष्यति। अस्य हेतोः राज्यस्तरे अपि नियन्त्रणकक्षः स्थापितः अस्ति।
---------------
हिन्दुस्थान समाचार