मुख्यमन्त्री निर्माणाधीन-डोमिनगढ-बंध-चतुर्पंक्ति-मार्गस्य तथा डोमिनगढ-रेल-उपरिगामी-सेतो: निरीक्षणं कृतवान्
गोरखपुर-नगरम्, २३ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्यस्य मुख्यमन्त्री योगी-आदित्यनाथः गुरुवासरे निर्माणाधीनं डोमिनगढ-माधोपुर-सेतो: महेसरा-सेतुपर्यन्तं चतुर्पंक्ति-मार्गं तथा डोमिनगढ-स्थं रेल-उपरिगामी-सेतुं (आरओबी) स्थलीय-निरीक्षणं कृतवान्। अस्मिन
फोरलेन सड़क और उपरिगामी पुल से और सुगम हो जाएगा आवागमन : सीएम योगी*


फोरलेन सड़क और उपरिगामी पुल से और सुगम हो जाएगा आवागमन : सीएम योगी*


फोरलेन सड़क और उपरिगामी पुल से और सुगम हो जाएगा आवागमन : सीएम योगी*


फोरलेन सड़क और उपरिगामी पुल से और सुगम हो जाएगा आवागमन : सीएम योगी*


फोरलेन सड़क और उपरिगामी पुल से और सुगम हो जाएगा आवागमन : सीएम योगी*


गोरखपुर-नगरम्, २३ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्यस्य मुख्यमन्त्री योगी-आदित्यनाथः गुरुवासरे निर्माणाधीनं डोमिनगढ-माधोपुर-सेतो: महेसरा-सेतुपर्यन्तं चतुर्पंक्ति-मार्गं तथा डोमिनगढ-स्थं रेल-उपरिगामी-सेतुं (आरओबी) स्थलीय-निरीक्षणं कृतवान्। अस्मिन् अवसरे सः राजघाट-सेतुतः हाबर्ट-बंधं अतिक्रम्य डोमिनगढं, कोलिया, गाहासाढ-बंधं च गत्वा जंगल-कौड़िया-कालेसर-मार्गपर्यन्तं चतुर्लेन-मार्ग-निर्माणस्य अपि सूचनां प्राप्तवान्। सः एता: सर्वा: परियोजना: सुगम-परिवहनस्य तथा बाढ़-निवारणस्य कृते अत्यन्तं महत्त्वपूर्णा: इति निर्दिश्य कार्ये शीघ्रता-वृद्धये निर्देशान् दत्तवान्।

ईको-पार्क-सहितं १०५५ कोटि-रूप्यक-व्ययेन विकास-परियोजनानां लोकार्पण-शिलान्यास-समारोहे सहभागं कृत्वा मुख्यमन्त्री डोमिनगढ-माधोपुर-बंधात् महेसरा-सेतुपर्यन्तं चतुर्पंक्ति-मार्गस्य तथा डोमिनगढ-रेल-उपरिगामी-सेतो: निरीक्षणार्थं गतवान्। प्रथमं सः लालडिग्गी-प्रदेशे बन्धे स्थितः सन् परियोजनायाः रूपरेखा-मानचित्रम् अवलोक्य कार्य-प्रगतेः विषये अपृच्छत्। सः लोक-निर्माण-विभागस्य निर्माण-खण्ड-द्वितीयस्य अधिकारिणः कार्ये अधिक-वेगं कर्तुं शीघ्रं समापनाय च निर्देशितवान्।

अनन्तरं इलाहीबाग-समीपे बन्धे पुनः स्थित्वा निर्माण-कार्यस्य अवलोकनं कृतवान्। सः लक्षित-समयात् (सितम्बर २०२६) पूर्वमेव जुलाई २०२६ पर्यन्तं कार्य-समापनं कर्तुं निर्देशान् दत्तवान्। तत्रैव नगर-आयुक्तं प्रति निर्देशः दत्तः यत् महेसरा-पर्यन्तं मार्गस्य अन्तिम-भागः सुन्दरतया विकसितः क्रियेत। तेन उक्तं यत् तत्र स्थिते जलाशय-क्षेत्रे अपि ईको-पार्क-रूपेण विकासः कर्तुं शक्यते।

चतुर्पंक्ति-मार्गस्य निरीक्षणानन्तरं मुख्यमन्त्री डोमिनगढ-चौकी-समीपे जगतबेला-डोमिनगढ-रेल-खण्डे रहमतनगर-माधोपुर-मार्गे निर्माणाधीन-उपरिगामी-सेतो: प्रगतेः विषये सूचनां प्राप्तवान् तथा कार्ये शीघ्रतां वर्द्धयितुन निर्देशान् दत्तवान्। तत्र उपस्थितान् जनान् सम्बोधयन् सः अवदत् यत् गोरखपुरे जीवन-सुगमतायै विकासस्य नूतना श्रृंखला प्रवर्तते। एताभि: परियोजनाभिः घुनघुनकोठा, जगतबेला तथा समीप-प्रदेशानां जनानां गमनागमनं सुलभं भविष्यति तथा बाढ़ात् अपि संरक्षणं भविष्यति।

मुख्यमन्त्री उक्तवान् यत् एतेन मार्गेण नगरस्य बाह्य-परिधौ उत्तमा चतुर्पंक्ति-संयोजकता (कनेक्टिविटी) उपलब्धा भविष्यति, येन यात्रिभ्यः नगर-अन्तः प्रवेशनस्य आवश्यकता न भविष्यति। महेसरा-पर्यन्तं गत्वा ततोऽपि सोनौली-मार्गं प्रति गमनं सुकरं भविष्यति।

डोमिनगढ-माधोपुर-बंधात् बसियाडीह-मन्दिरं मार्गेण महेसरा-सेतुपर्यन्तं १०.२ कि.मी. दीर्घे मार्गे ३७९.५४ कोटि-रूप्यक-व्ययेन चतुर्लेन-मार्ग-निर्माणं प्रवर्तते। अस्य कार्यस्य दायित्वं लोक-निर्माण-विभागस्य निर्माण-खण्ड-द्वितीयस्य अस्ति। एषः मार्गः मूलतया सितम्बर २०२६ पर्यन्तं सम्पन्नः कर्तव्यः, किन्तु मुख्यमन्त्रिणा जुलाई २०२६ पर्यन्तं समापनाय निर्देशः दत्तः।

तथैव राजघाट-सेतुतः हाबर्ट-बंधं गत्वा डोमिनगढादि प्रदेशान् अतिक्रम्य जंगल-कौड़िया-कालेसर-मार्गपर्यन्तं ४.०७ कि.मी. दीर्घस्य मार्गस्य चतुर्पंक्तिकरणं १९५.२१ कोटि-रूप्यक-व्ययेन क्रियते। अस्य कार्यस्य प्रायः ७५ प्रतिशतं सम्पन्नम् अस्ति तथा मे २०२६ पर्यन्तं समापनं लक्ष्यीकृतम्।

जगतबेला-डोमिनगढ-रेल-खण्डे रहमतनगर-माधोपुर-मार्गे ७५५ मीटर-दीर्घः उपरिगामी-सेतु: १३२.६० कोटि-रूप्यक-व्ययेन निर्मीयते। अस्य समापनं दिसम्बर २०२७ पर्यन्तं अपेक्षितम्। अस्य सेतो: निर्माणेन विभिन्न-प्रदेशानां मार्ग-संयोजनं सुदृढं भविष्यति, यात्रिभ्यः समय-इन्धनयोः च संरक्षणं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता