Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, २३ अप्रैलमास: (हि.स.)। अमेरिकी विशेष-दूतस्य नेपाल-यात्रा निश्चिताअमेरिकी-राष्ट्रपति-डोनाल्ड-ट्रम्पस्य दक्षिण-मध्य-एशिया-सम्बद्ध-विषयेषु विशेष-दूतः सर्जियो-गोरः नेपाल-देशं आगन्तुं गच्छति। अमेरिकी-सहायक-विदेश-मन्त्री समीर-पॉल-कपूरस्य नेपाल-यात्रायाः समाप्त्यनन्तरं सः आगामी-सप्ताहे काठमाण्डू-नगरम् आगमिष्यति इति सूचितम्।
काठमाण्डू-स्थितेन अमेरिकी-दूतावासेन उक्तं यत् स्व-नेपाल-प्रवास-काले सः अनेकैः उच्च-स्तरीय-राजनैतिक-नेतृभिः सह साक्षात्कारं करिष्यति। विशेषतः विशेष-दूतस्य सर्जियो-गोरस्य नेपाल-प्रधानमन्त्री बालेन्द्र-शाहेन सह अपि साक्षात्कारः शुक्रवार-दिने सम्भावितः इति योजना अस्ति।
सर्जियो-गोरः वर्तमान-काले भारत-देशे अमेरिका-राजदूत-पदे अपि कार्यरतः अस्ति। ततः पूर्वं सहायक-विदेश-मन्त्री कपूरः नेपाल-विदेश-मन्त्री शिशिर-खनालेन तथा वित्त-मन्त्री स्वर्णिम-वागलेन सह वार्तालापं कृतवान्।
नेपाल-देशे जन-आन्दोलनानन्तरं, निर्वाचन-प्रक्रियायाः समये तथा नूतन-सर््कार-निर्माणानन्तरं अमेरिकायाः उच्चाधिकारिणां सतत-आगमनं दृश्यते। ततः पूर्वं अपि नूतन-सर््कार-गठन-कालखण्डे अमेरिकी-इण्डो-पैसिफिक-कमाण्ड-प्रमुखस्य नेपाल-यात्रा अभवत् इति स्मर्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता