Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 23 अप्रैलमासः (हि.स.)।उत्तराखण्डे बहुप्रतीक्षिता चारधाम यात्रा 2026 विधिवत् आरब्धा अस्ति। गुरुवासरे बद्रीनाथ धाम-स्य कपाटोद्घाटनेन सह राज्यस्य चत्वारः प्रमुखाः धामाः—केदारनाथ धाम, गंगोत्री धाम, यमुनोत्री धाम च—श्रद्धालूनां दर्शनार्थं पूर्णतया उद्घाटिताः सन्ति। अनेन सह देशविदेशेभ्यः आगच्छतां श्रद्धालूनां गमनागमनं तीव्रं जातम्।
गुरुवासरे प्रातः ६ वादनात् १५ निमेषपर्यन्ते बद्रीनाथधामस्य कपाटानि वैदिकमन्त्रउच्चारणेन पारम्परिकविधिविधानैः सह ग्रीष्मकालाय उद्घाटितानि। कपाटोद्घाटनेन सह मन्दिरपरिसरे “जय बद्रीविशाल” इति घोषैः वातावरणं भक्तिमयं अभवत्।
अस्मिन् पुण्यावसरे उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी अपि उपस्थितः आसीत्। तेन विधिवत् पूजार्चना कृत्वा राज्यस्य सुखसमृद्धये देशवासिनां च कल्याणाय प्रार्थना कृता।
कपाटोद्घाटनेन सह सहस्रशः श्रद्धालवः भगवान् बद्रीविशालस्य दर्शनं कृतवन्तः तथा धाम्नि प्रज्वलितायाः अखण्डज्योतेः दर्शनं कृत्वा पुण्यलाभं प्राप्तवन्तः। प्रभातात् एव मन्दिरपरिसरे श्रद्धालूनां दीर्घाः पङ्क्तयः दृष्टाः।
गौरवणीयं यत् गंगोत्रीधाम तथा यमुनोत्रीधामयोः कपाटानि अक्षय तृतीया इत्यस्य शुभावसरे पूर्वमेव उद्घाटितानि आसन्, तथा च केदारनाथधामस्य कपाटानि अपि निर्धारिततिथौ विधिविधानपूर्वकं उद्घाटितानि।
चारधामयात्राया आरम्भे सति प्रशासनं सरकार च पूर्णतया सजगस्थितौ स्तः। यात्रामार्गेषु सुरक्षा-व्यवस्थाः सुदृढाः कृताः सन्ति, तथा च स्वास्थ्यसेवाः, यातायातव्यवस्था, निवासव्यवस्था च सम्यक् सुनिश्चिताः।
राज्यसरकारेण श्रद्धालुभ्यः आह्वानं कृतम् यत् ते यात्राकाले निर्दिष्टान् दिशानिर्देशान् पालनं कुर्वन्तु तथा च मौसमसम्बद्धाः स्वास्थ्यसम्बद्धाः च सावधान्यः अवलम्बन्तु, येन यात्रा सुरक्षितरूपेण सुगमरूपेण व्यवस्थितरूपेण च सम्पन्ना भवेत्।
हिन्दुस्थान समाचार