Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 23 अप्रैलमासः (हि.स.)।
चमोलीजिल्लायां स्थितस्य भगवतो बदरीनाथधाम्नः कपाटाः वैदिकमन्त्रुच्चारणेन धार्मिकपरम्परानुसारं च गुरुवासरे प्रातः षड्वादनपञ्चदशमिनिटे सम्यक् श्रद्धालुभ्यः उद्घाटिताः। पारम्परिकवाद्ययन्त्राणां सेना-बैण्डस्य च मधुरध्वनिना सह श्रद्धालूनां जयघोषैः बदरीशपुरी निनादिता अभवत्।
अस्मिन् पवित्रावसरे देशविदेशेभ्यः आगताः प्रायः पञ्चदशसहस्र (१५०००) श्रद्धालवः भगवान् बद्रीविशालस्य अखण्डज्योतेश्च दर्शनं कृत्वा पुण्यलाभं प्राप्नुवन्।
मुख्यमंत्री पुष्कर सिंह धामी महोदयेन कपाटोद्घाटने नरेन्द्र मोदी नाम्ना प्रथममहाभिषेकपूजा सम्पन्ना, देशस्य प्रदेशस्य च सुखसमृद्ध्यै मङ्गलकामना कृता।
कपाटोद्घाटनानन्तरं माता लक्ष्म्याः मूर्तिः स्वमूलमन्दिरे प्रतिष्ठापिता। ततः शङ्कराचार्यगद्द्या सह उधवगरुडयोः डोलिका मन्दिरं प्रविश्य गर्भगृहे प्रतिष्ठापिता।
सरकारेण बदरीनाथकेदारनाथमन्दिरसमित्या स्थानिकप्रशासनेन च यात्रार्थं सम्यक् व्यवस्थाः कृताः, येन देशविदेशेभ्यः आगच्छन्तः श्रद्धालवः कस्यापि असुविधायाः अनुभवं न कुर्वन्ति।
मुख्यमन्त्रिणा यात्राव्यवस्थायाः प्रतिपुष्टिः अपि गृहीता। तेन उक्तं यत् चारधामयात्रां सुरक्षितां सुगमां सुव्यवस्थितां च कर्तुं राज्यसरकारेण व्यापकतया सज्जता कृता। श्रद्धालूनां सुविधा सुरक्षा उत्तमअनुभवश्च सुनिश्चितुं सर्वेषु स्तरिषु व्यवस्थाः सुदृढीकृताः सन्ति।
मुख्यमन्त्री देशविदेशेभ्यः आगतसर्वान् श्रद्धालून् हरितस्वच्छचारधामयात्रायां सहयोगं कर्तुं आहूतवान् तथा पर्यावरणसंरक्षणस्य सन्देशं दत्तवान्।
चारधामयात्रायाः शुभारम्भेन सह बदरीनाथधामे आस्था परम्परा सुव्यवस्था च अद्भुतरूपेण दृश्यन्ते, यत् श्रद्धालूनां कृते दिव्यस्मरणीयानुभवं भविष्यति।
लोकसंस्कृतेः झलकीअस्मिन् ऐतिहासिकावसरे माणा बामणीग्रामयोः महिलाः पारम्परिकजागरगीतैः सह मन्दिरप्राङ्गणे झुमैलोनृत्यं प्रस्तुतवन्त्यः, येन समग्रं वातावरणं लोकसंस्कृत्या आस्थया च रञ्जितम्। देशस्य विभिन्नभागेभ्यः आगताः श्रद्धालवः अपि भजनकीर्तनैः स्वां भक्तिं प्रदर्शितवन्तः।
भण्डारस्य शुभारम्भःमुख्यमन्त्री पुष्कर सिंह धामी धाम्नि सञ्चालितस्य भण्डारस्य उद्घाटनं कृत्वा श्रद्धालुभिः सह प्रसादं गृहीतवान्। तेन भण्डारसञ्चालकैः सह संवादः कृतः, व्यवस्थाः अपि अवलोकिताः। मानवसेवा ईश्वरसेवा उत्थानसमित्या सञ्चालितस्य विशालभण्डारस्य प्रशंसा अपि कृता।
अस्मिन् अवसरे जिलाधिकारी गौरवकुमारः, पुलिसअधीक्षकः सुरजीतसिंहपंवारः, बीकेटीसी-सीईओ विशालमिश्रः, उपाध्यक्षः ऋषिप्रसादसती, रावल अमरनाथनम्बूदरी, मुख्यप्रशासनिकाधिकारी गिरीशचौहानः, मन्दिराधिकारी राजेन्द्रचौहानः, नायबरावल सूर्यरागनम्बूदरी, धर्माधिकारी स्वयम्बरसेमवालः, वेदपाठी रविन्द्रभट्टः, आचार्य वाणीविलासडिमरी च अन्ये बहवः गणमान्यजनाः बहुसंख्यकाः श्रद्धालवश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार