आईआईटी रुड़की : जेईई एडवांस्ड परीक्षायै ऑनलाइनमाध्यमेन आवेदनमद्यारभ्य 2 मई यावत्
हरिद्वारम्, 23 अप्रैलमासः (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानानां (आईआईटी) अभियान्त्रिकीपाठ्यक्रमेषु प्रवेशाय JEE Advanced 2026 परीक्षायाः आयोजनं इंडियन इंस्टिट्यूट ऑफ़ टेक्नोलॉजीरूडकीद्वारा क्रियते। अस्य कृते ऑनलाइन पञ्जीकरणं २३ अप्रैलतः आरभ्यते।
आईआईटी रुड़की भवन का चित्र


हरिद्वारम्, 23 अप्रैलमासः (हि.स.)।

भारतीयप्रौद्योगिकीसंस्थानानां (आईआईटी) अभियान्त्रिकीपाठ्यक्रमेषु प्रवेशाय JEE Advanced 2026 परीक्षायाः आयोजनं इंडियन इंस्टिट्यूट ऑफ़ टेक्नोलॉजीरूडकीद्वारा क्रियते। अस्य कृते ऑनलाइन पञ्जीकरणं २३ अप्रैलतः आरभ्यते।

आईआईटी रुड़क्याः जनसंपर्कविभागेन सूचितम् यत् JEE Advanced 2026 कृते, JEE Main 2026 परीक्षायां योग्याः अभ्यर्थिनः २३ अप्रैल २०२६ (प्रातः १० वादनात्) आरभ्य २ मई २०२६ (रात्रेः २३:५९ वादनपर्यन्तम्) यावत् ऑनलाइन पञ्जीकरणं कर्तुं शक्नुवन्ति।

पञ्जीकृतानां अभ्यर्थिनां शुल्कभुगतानस्य अन्तिमतिथि ४ मई २०२६ (रात्रेः २३:५९ वादनपर्यन्तम्) अस्ति।

योग्याः अभ्यर्थिनः निर्दिष्टसमयसीमायां अन्तर्गतं आधिकारिकपटलद्वारा (https://jeeadv.nic.in/applicant) स्वपञ्जीकरणं सम्पूर्णं कुर्वन्तु।

JEE Advanced 2026 कृते केवलं ते एव अभ्यर्थिनः आवेदनं कर्तुं अर्हन्ति, ये JEE Main 2026 परीक्षायां सहभागिनः सन्ति तथा च शीर्ष २.५ लक्ष रैंकमध्ये आगच्छन्ति।

हिन्दुस्थान समाचार