Enter your Email Address to subscribe to our newsletters

कोलकाता, 23 अप्रैलमासः (हि.स.)। पश्चिमबङ्गविधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणस्य मतदानं गुरुवासरे प्रातः कठनसुरक्षाव्यवस्थायाः मध्ये आरब्धम्। राज्यस्य १५२ विधानसभासु आसन्दिषु मतदातारः स्वमताधिकारं प्रयुञ्जते। प्रातःकालादेव बहुषु मतदानकेन्द्रेषु मतदातॄणां दीर्घाः पङ्क्तयः दृष्टाः। प्रशासनं निर्वाचनायोगश्च शान्तिपूर्णनिष्पक्षसुव्यवस्थितमतदानार्थं विस्तृतव्यवस्थाः कृतवन्तौ।
प्रथमचरणे राज्यस्य षोडशजिलानां १५२ आसन्दिषु मतदानं प्रवर्तते। तेषु दार्जिलिंग, कलिम्पोंग, जलपाईगुड़ी, अलीपुरद्वार, कूचबिहार, उत्तरदिनाजपुर, दक्षिणदिनाजपुर, मालदा, मुर्शिदाबाद, बीरभूम, पश्चिमबर्धमान, पुरुलिया, बांकुड़ा, झाड़ग्राम, पश्चिममेदिनीपुर तथा पूर्वमेदिनीपुर इति जिलाः समाविष्टाः सन्ति। एतेषु क्षेत्रेषु सीमावर्तीप्रदेशाः, चायबागानप्रदेशाः, ग्रामीणप्रदेशाः, आदिवासीबहुलप्रदेशाः तथा महत्त्वपूर्णनगरप्रदेशाश्च अपि सन्ति।
निर्वाचनायोगस्य अनुसारं अस्मिन् चरणे प्रायः ३.६ कोट्यधिकाः मतदातारः मतदानयोग्याः सन्ति। मतदानार्थं प्रायः चतुश्चत्वारिंशत्सहस्र (४४०००) केन्द्राणि निर्मितानि सन्ति। प्रातः नियतसमये मतदानप्रक्रिया आरब्धा सति अनेकेषु स्थानेषु मतदातॄणाम् उत्साहः दृश्यते स्म। स्त्रीणां युवानां वरिष्ठनागरिकाणां च उत्तमा सहभागिता अपि दृष्टा।
राज्ये सर्वत्र कठनसुरक्षाव्यवस्थाः स्थापिताः सन्ति। केन्द्रीयसशस्त्रबलस्य २४०७ कंपन्यः नियुक्ताः सन्ति। संवेदनशीलअतिसंवेदनशीलकेन्द्रेषु अतिरिक्तबलं निगराणीदलानि चित्रांकनव्यवस्था विशेषपर्यवेक्षकाः च नियोजिताः। त्वरितकार्यदलानि अपि सज्जानि स्थापितानि, येन कस्यापि शिकायतायाः तनावस्थितेः वा सति शीघ्रं क्रिया कर्तुं शक्यते।
प्रातःकाले एव नेता प्रतिपक्षः वरिष्ठः शुभेंदु अधिकारी नन्दीग्रामं गत्वा मतदानकेन्द्राणां निरीक्षणं कृतवान्। तेन विभिन्नकेन्द्रेषु उपस्थितैः मतदानप्रतिनिधिभिः सह संवादः कृतः, तथा मतदानं पूर्णतया शान्तिपूर्णं भवेत् इति उक्तम्। तेन प्रशासनं प्रति निष्पक्षप्रक्रियायाः सुनिश्चित्यर्थं अपि निवेदनं कृतम्।
प्रथमचरणे कुलं १४७८ अभ्यर्थिनः स्पर्धायां सन्ति। तेषु बहवः प्रसिद्धनेतारः मन्त्रिणः पूर्वविधायकाः नूतनमुखानि च सन्ति। राजनैतिकदलानां दृष्टिः विशेषतः उत्तरबङ्गप्रदेशेषु सीमावर्तीप्रदेशेषु ग्रामीणप्रदेशेषु अल्पसंख्यकबहुलासु आसन्दिषु च केन्द्रिता अस्ति।
हिन्दुस्थान समाचार