पश्चिम बंगाले प्रथम चरणस्य निर्वाचने 152 अथ तमिलनाड्च सर्वेषु 234आसनेषु मतदानमद्य
नवदिल्ली, 23 अप्रैलमासः (हि.स.)। पश्चिमबङ्गराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे तमिलनाडुराज्यस्य सर्वासु आसन्दिषु च अद्य मतदानं भविष्यति। पश्चिमबङ्गे मतदातृसूच्याः विशेषगहनपुनरीक्षणस्य दीर्घप्रक्रियानन्तरं विधानसभानिर्वाचनं आयोज्यते। मतदानार्थम्
सांकेतिक।


नवदिल्ली, 23 अप्रैलमासः (हि.स.)।

पश्चिमबङ्गराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे तमिलनाडुराज्यस्य सर्वासु आसन्दिषु च अद्य मतदानं भविष्यति। पश्चिमबङ्गे मतदातृसूच्याः विशेषगहनपुनरीक्षणस्य दीर्घप्रक्रियानन्तरं विधानसभानिर्वाचनं आयोज्यते। मतदानार्थम् अभूतपूर्वसुरक्षाव्यवस्था कृता अस्ति।

प्रथमचरणे षोडशजिलानां द्विपञ्चाशदधिकशतं (१५२) आसन्दिषु मतदानं भविष्यति। तमिलनाडुराज्ये सर्वासु द्विशतचतुस्त्रिंशत् (२३४) विधानसभासु एकस्मिन्नेव चरणे प्रातः सप्तवादनात् सायं षड्वादनपर्यन्तं मतदानं भविष्यति।

पश्चिमबङ्गे प्रथमचरणे उत्तरबङ्गस्य अष्ट, दक्षिणबङ्गस्य त्रयः तथा जङ्गलमहलक्षेत्रस्य पञ्च जिलाः अन्तर्भवन्ति। राज्यस्य मुख्यनिर्वाचनाधिकाऱिणः कार्यालयस्य अनुसारं प्रथमचरणार्थं केन्द्रीयबलस्य कुलं द्विसहस्रचत्वारिशतसप्त (२४०७) कंपन्यः नियुक्ताः सन्ति। पूर्वमेदिनीपुरजिले अधिकतमाः द्विशतत्रिसप्ततिः (२७३) कंपन्यः विधिव्यवस्थां पालनं करिष्यन्ति।

मतदानकेन्द्राणां शतमीटरपरिधौ केन्द्रीयबलस्य नियन्त्रणं भविष्यति। प्रत्येकस्मिन् मतदानकेन्द्रे केन्द्रीयबलस्य चत्वारः सैनिकाः नियुक्ताः भविष्यन्ति।

आयोगेन उक्तं यत् यदि इलेक्ट्रॉनिकमतयन्त्रस्य बटने इत्रं कालिखा गोंदः वा कश्चन रासायनिकद्रव्यं दृश्यते तर्हि तत् ‘मतपरिवर्तनम्’ इति मन्यते। तत्र मतं रद्दीकृत्य पुनर्मतदानं कर्तुं शक्यते। पीठासीनाधिकाऱिणः मतदानारम्भात् पूर्वं यन्त्राणां सम्यक् परीक्षणं कर्तुम् कठोरनिर्देशाः दत्ताः सन्ति।

तमिलनाडुराज्ये सर्वासु २३४ आसन्दिषु एकस्मिन्नेव चरणे मतदानं भविष्यति। राज्ये ५.७३ कोट्यधिकाः मतदातारः ४०२३ अभ्यर्थिनां भाग्यनिर्णयं करिष्यन्ति। तमिलनाडौ द्रमुकसन्धिः तथा अन्नाद्रमुकसन्धिः परस्परं प्रतिस्पर्धां कुर्वन्ति।

---------------

हिन्दुस्थान समाचार