Enter your Email Address to subscribe to our newsletters

नवदेहली-नगरम्, २३ अप्रैलमास: (हि.स.)। प्रधानमन्त्री-नरेन्द्र-मोदिना गुरुवासरे संस्कृत-सुभाषितस्य माध्यमेन निःस्वार्थ-सेवायाः तथा परोपकारस्य सन्देशः समाजाय प्रेषितः।प्रधानमन्त्री-मोदिना सामाजिक-माध्यमे ‘एक्स’ इत्यस्मिन् एकं संस्कृत-श्लोकं प्रकाश्य जनान् विना कस्यापि अपेक्षायाः परहिताय कार्यं कर्तुं प्रेरितम्।
प्रधानमन्त्रिणा प्रकाशितं सुभाषितम् अस्ति यत्
पद्माकरं दिनकरो विकचीकरोति चन्द्रो विकासयति कैरवचक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः।।
अस्य सुभाषितस्य अर्थः अस्ति यत् यथा सूर्यः कमलं विकसयति, चन्द्रः कुमुदिनीं विकासयति, तथा मेघः अपि अनभ्यर्थितः एव जलं वर्षति, तथैव सज्जनाः अपि कस्यापि अपेक्षां विना परहिताय सततं कार्यं कुर्वन्ति।
प्रधानमन्त्रिणा अस्मिन् सन्दर्भे समाजे परोपकार-करुणा-निःस्वार्थ-सेवा-इत्येतेषां मूल्यानां स्वीकाराय आह्वानं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता