अमेरिका-भारत अंतरिक्ष सहयोगेन अधुना व्यावसायिकसहकारिता
ज़हूर हुसैन बट, अमेरिकी दूतावासः अमेरिकादेशभारतयोः अन्तरिक्षसहयोगस्य नूतनः चरणः आकारं गृह्णाति, यः केवलं नीतिसंवादेन न, अपितु निजीक्षेत्रस्य सक्रियतया अधिकं प्रेरितः अस्ति। एषः परिवर्तनः बेंगलुरुनगरे स्पष्टतया दृष्टः, यत्र उभयोः देशयोः नीतिनिर्मात
यूएस-इंडिया स्पेस बिजनेस फोरम


ज़हूर हुसैन बट, अमेरिकी दूतावासः

अमेरिकादेशभारतयोः अन्तरिक्षसहयोगस्य नूतनः चरणः आकारं गृह्णाति, यः केवलं नीतिसंवादेन न, अपितु निजीक्षेत्रस्य सक्रियतया अधिकं प्रेरितः अस्ति। एषः परिवर्तनः बेंगलुरुनगरे स्पष्टतया दृष्टः, यत्र उभयोः देशयोः नीतिनिर्मातारः उद्योगनेतारः उद्यमिनः च व्यावसायिक-अन्तरिक्षसहयोगस्य उन्नत्यर्थं समागताः।

अमेरिकीदूतावासेन चेन्नईस्थेन आयोजिते, यूएस-इण्डिया-स्ट्रैटेजिक-पार्टनरशिप-फोरम् इत्यस्य सहयोगेन, २०२६ वर्षस्य फेब्रुवारीमासे आयोजिते अमेरिका-भारत-अन्तरिक्ष-व्यापार-फोरम इत्यत्र उभयोः देशयोः द्विशताधिकाः शासकीय-औद्योगिकप्रतिभागिनः सहभागीभूताः, येन व्यावसायिकसम्बन्धानां विस्तारे गाढरुचिः प्रकटिता।

अयं फोरम् भारतस्य कृते अन्तरिक्षक्षेत्रे समर्पितस्य प्रथमस्य अमेरिकीव्यापारमिशनस्य मुख्यकार्यक्रमः अपि आसीत्, यत्र अमेरिकीवाणिज्यमन्त्रालयेन तथा बिज़नेस-काउन्सिल-फॉर-इण्टरनेशनल-अण्डरस्टैण्डिङ्ग् इत्यनेन सह आयोजनं कृतम्। अस्मिन् चतुर्दश प्रमुखाः अमेरिकी-अन्तरिक्षकम्पन्यः तेषां त्रयोविंशतिः वरिष्ठअधिकाऱिणः भारतदेशं समागतवन्तः।

रणनीतिकसमन्वयात् क्रियान्वयनपर्यन्तं परिवर्तनं तेषां कृते स्पष्टम् अस्ति ये अस्य सहयोगस्य केन्द्रे कार्यं कुर्वन्ति। राष्ट्रीयमहासागरीयवायुमण्डलीयप्रशासनस्य स्पेस-कॉमर्स-कार्यालयस्य अन्तरराष्ट्रीयसम्बन्धविशेषज्ञा रोज़-क्रोशियर् अस्य फोरमस्य मूल्यांकनं नीतिगत्याः औद्योगिकवृद्धेः च प्रतिक्रिया इति मन्यते। सा वदति यत् भारतस्य निजी-अन्तरिक्ष-परिसंस्था तीव्रगत्या विकसिताभवत् तथा अमेरिकीभारतीयनेतृत्वयोः मध्ये अद्वितीयः रणनीतिकसमन्वयः अभवत्।

तस्या अनुसारं भारतस्य अन्तरिक्ष-स्टार्टअप-परिसंस्था अधुना चतुःशताधिक-कम्पन्यः समावहति, याः सबऑर्बिटल-लॉञ्च् तथा हाइपरस्पेक्ट्रल-इमेजिङ्ग् इत्यादिषु क्षेत्रेषु उल्लेखनीयाः सिद्धयः प्राप्तवन्त्यः। एते विकासाः अमेरिकी-निजीक्षेत्रं भारतं प्रमुखसहभागिरूपेण स्वीकरोतुं प्रेरितवन्तः।

एषा प्रगति “ट्रस्ट्” इत्यस्य व्यापकपरियोजनायाः सन्दर्भे अवस्थितम् अस्ति, या दीर्घकालीन-सरकार-से-सरकार-सहयोगात् उत्पादक-व्यावसायिक-सहभागितां प्रति संक्रमणं दर्शयति। क्रोशियर् वदति यत् अयं फोरम् व्यावसायिक-उत्प्रेरकरूपेण कार्यं करोति, यः नीत्यनुकूलतां औद्योगिकक्रियायां निवेशे च परिवर्तयति।

यूएसआईएसपीएफ् इत्यस्य भारतविभागस्य प्रबन्धनिदेशिका निवेदितामेहरा वदति यत् अमेरिका-भारत-अन्तरिक्षसम्बन्धाः अधुना नीतिसंवादात् अतिक्रम्य क्रियान्वयनस्य चरणे प्रविष्टाः। सा वदति— “पूर्वं एतादृशाः चर्चाः केवलं सम्मेलनगृहेषु संयुक्तवक्तव्येषु च सीमिताः आसन्, अधुना तु संयुक्तमिशनाः साझामञ्चाः वास्तविकव्यावसायिकसहयोगाश्च विकसिताः दृश्यन्ते।”

सा अपि वदति यत् अयं फोरम् निवेशस्य उद्घाटनं व्यावसायिकसंबन्धविस्तारं आपूर्तिशृंखलासंयोजनस्य निर्माणं च प्रोत्साहयति।

क्रोशियर् एतत् मिलनं “नूतनबाजारस्य” उद्भवः इति वर्णयति। अमेरिकीवाणिज्यमन्त्रालयस्य सहायकसचिवस्य टेलरजॉर्डनस्य उक्तिं उद्धृत्य सा वदति— “वयं अधुना केवलं समानान्तर-अन्तरिक्षकार्यक्रमयुक्तौ राष्ट्रौ न स्मः, अपि तु वैश्विक-अन्तरिक्ष-अर्थव्यवस्थां निर्मातुं संयोजितौ परिसंस्थौ स्मः।”

अमेरिका उन्नतप्रौद्योगिकीं, गाढ-वित्तनिवेश-जालं, परिपक्व-अन्तरिक्ष-अवसंरचनां च प्रददाति, भारतः तु गुणवत्तायुक्त-अनुसन्धानं, किफायती-अभियांत्रिकीं, शीघ्र-विकासमान-विनिर्माणाधारं च प्रददाति। एतादृशाः फोरमाः उभयोः क्षमतयोः मध्ये सेतुं निर्माय प्रत्यक्षसहयोगस्य अवसरान् सृजन्ति।

व्यापार-से-व्यापार-समागमेषु अमेरिकीकम्पन्यः भारतीय-स्टार्टअपैः सह सम्भावितव्यवहारान् संयुक्तउद्यमान् च चर्चितवन्तः। भारतीयसरकारस्य, विशेषतः इस्रो तथा इन-स्पेस इत्ययोः सहभागिता अपि प्रशंसनीया आसीत्।

मेहरा वदति यत् उभयोः पक्षयोः मध्ये तात्कालिकता महत्त्वाकांक्षा च स्पष्टतया दृश्येते। अमेरिकीकम्पन्यः भारतस्य विकसित-अन्तरिक्षपरिसंस्थया सह सहयोगाय सज्जाः सन्ति, भारतीयकम्पन्यः तु वैश्विक-आपूर्तिशृंखलासु एकीकरणाय प्रयतन्ते।

उभे अपि विशेषज्ञे वदतः यत् व्यावसायिकनीतिः नियामकसंरचनया सह समन्वितव्या। क्रोशियर वदति यन्नीतिसम्पूर्णतां प्रतीक्षां मा कुर्वन्तु; अद्य एव सम्बन्धनिर्माणं आरभन्ताम्।” बौद्धिकसम्पदासम्बन्धिताः विषयाः निर्यातनियन्त्रणभेदाः च अस्ति, किन्तु सरकारे उद्योगस्य आवश्यकतासु शीघ्रं प्रत्युत्तरं ददाति।

मेहरा अपि वदति यत् ये कम्पनीः अद्य विश्वासगुणवत्तानियमपालननिर्माणे निवेशं कुर्वन्ति, ते एव भविष्यात् सर्वोत्तमस्थानं प्राप्स्यन्ति।

भविष्ये अन्तरिक्ष-अर्थव्यवस्थायाः विकासः उत्तमसंयोजित-आपूर्तिशृंखलाः स्पष्टनियमाः साझा-अवसंरचना च अपेक्षते। सफलता तदा स्पष्टा भविष्यति यदा सीमापारसहयोगः देशीयप्रयत्नवत् शीघ्रं प्रभावकरं च भविष्यति।

अन्ततः अमेरिका-भारत-अन्तरिक्ष-व्यापार-फोरम इत्येतत् केवलं सम्मेलनं न, अपितु उभयोः देशयोः अन्तरिक्षक्षेत्रे सहयोगस्य नूतनदिशां सूचयति। अधुना ध्यानं केवलं सम्भावनायां न, अपि तु तीव्रक्रियान्वयने अस्ति—विचाराः कथं शीघ्रं निवेशरूपेण परिणमन्ति, सहयोगाः च कथं वास्तविकपरियोजनासु परिवर्तन्ते इति एव अस्य वास्तविकपरीक्षा।

---------------

हिन्दुस्थान समाचार