Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 24 अप्रैलमासः (हि.स.)।
कुमाऊँ-विश्वविद्यालयेन सम्बद्धेषु परिसरेषु, महाविद्यालयेषु संस्थानेषु च स्नातक-स्नातकोत्तर-व्यावसायिक-पाठ्यक्रमाणां सम-सेमेस्टर-परीक्षाणां कृते ऑनलाइन-आवेदन-प्रक्रिया २५-अप्रिल्-दिनाङ्कात् आरभ्य ५-मई २०२६ पर्यन्तं समर्थ-ईआरपी-पटलयोः सञ्चालिता भविष्यति।
विश्वविद्यालयेन कार्यक्रम-कोड KU001 इत्यतः KU092 पर्यन्तं तथा KU500 इत्यतः KU676 पर्यन्तं स्थितानां विद्यार्थिनां प्रति निर्देशाः प्रदत्ताः यत् ते निर्धारित-तिथेः अन्तर्गतं आवेदन-पत्रं पूरयित्वा शुल्कं सम्यक् जमा कुर्वन्तु।
विश्वविद्यालयस्य उप-परीक्षा-नियन्त्रकेण उक्तं यत् ये विद्यार्थी निर्धारित-तिथौ आवेदनं कर्तुं न शक्नुवन्ति, ते ६-मई-दिनाङ्कात् आरभ्य १०-मई २०२६ पर्यन्तं पञ्चाशत्-प्रतिशत-विलम्ब-शुल्केन सह आवेदनं कर्तुं शक्नुवन्ति।
विश्वविद्यालयेन स्पष्टतया उक्तं यत् १०-मई-दिनाङ्कानन्तरं कस्यापि परिस्थितौ आवेदनं न स्वीकरिष्यते।
विद्यार्थिभ्यः अपेक्षा कृता यत् ते समय-सीमायाः अन्तर्गतं आवेदन-प्रक्रियां पूर्णयन्तु।
हिन्दुस्थान समाचार