Enter your Email Address to subscribe to our newsletters

पटना, 24 अप्रैलमासः (हि.स.)। बिहारराज्यस्य २४३ सदस्ययुक्तायां विधानसभायां मुख्यमन्त्री सम्राटचौधरी शुक्रवासरे औपचारिकतया बहुमतं सिद्धीकृत्य विश्वासमतं प्राप्तवान्। सभायां प्रस्तुतः विश्वासमतप्रस्तावः ध्वनिमतेन अनुमोदितः। अनेन सह सम्राटचौधरीनेतृत्वयुक्ता सरकारः विधानसभायाः विश्वासं प्राप्तवती।
सम्राटचौधरी एप्रिलमासस्य १५ तिथौ नीतिशकुमारस्य स्थाने बिहारस्य मुख्यमन्त्रिपदस्य शपथं गृहीतवान्। तेन सह जनता-दल-यूनाइटेड् (जदयू) पक्षतः विजयकुमारचौधरी तथा बिजेन्द्रप्रसादयादवः उपमुख्यमन्त्रिपदस्य शपथं गृहीतवन्तौ।
विधानसभायाः एकदिवसीये विशेषसत्रे विश्वासमतप्रस्तावे भाषमाणः मुख्यमन्त्री सम्राटचौधरी प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री अमितशाह, भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः, पूर्वमुख्यमन्त्री नीतिशकुमारः तथा राष्ट्रियजनतान्त्रिकगठबन्धनस्य वरिष्ठनेतृभ्यः प्रति कृतज्ञतां व्यक्तवान्।
स्वभाषणे सः उक्तवान्— “मुख्यमन्त्रिपदम् कस्यचित् बपौती नास्ति। १४ कोटिजनानां समर्थनम् आशीर्वादं च प्राप्त्वा अहं मुख्यमन्त्री अभवम्।” सः विपक्षं प्रति आक्षेपं कुर्वन् उक्तवान् यत् सत्ता कस्यचित् एकस्य कुलस्य वा व्यक्तेः वा स्वामित्वं न भवितुम् अर्हति।
सम्राटचौधरी राष्ट्रियजनतादलस्य प्रमुखं लालूप्रसादयादवम् अपि तीव्रतया आलोचितवान्। सः उक्तवान् यत् लालूप्रसादयादवस्य शासनकाले जाताः अत्याचाराः एव तस्य राजनैतिकबलस्य कारणम् अभवन्। सः दावं कृतवान् यत् लालूप्रसादयादवः तं तस्य परिवारस्य द्वाविंशतिसदस्यान् च कारागारं प्रेषितवान्, अनन्तरं स्वदोषं स्वीकृत्य सार्वजनिकतया क्षमां याचितवान्।
मुख्यमन्त्री सम्राटचौधरी स्वसरकारस्य प्राथमिकताः स्पष्टयन् उक्तवान् यत् तस्य सरकारः “त्रिपुट-सी” (अपराधः, भ्रष्टाचारः, सांप्रदायिकता) विषयेषु कस्यापि प्रकारस्य समझौतम् न करिष्यति। सः उक्तवान् यत् यथा नीतिशकुमारस्य नेतृत्वे एतेषु विषयेषु कठोरता आसीत्, तथैव अग्रे अपि एषा नीति अनुवर्तिष्यते।
महिलासुरक्षायाः विषये अपि मुख्यमन्त्री दृढं सन्देशं दत्तवान्। सः उक्तवान् यत् महिलानां विरुद्धं अपराधं कुर्वन्तः केनापि प्रकारेण न क्षम्यन्ते। सः उक्तवान्— “यः कश्चित् महिलानां विरुद्धं अपराधं करिष्यति, तं अस्माकं पुलिसः पातालतः अपि अन्विष्य निष्कासयिष्यति।”
प्रशासनिकसुधाराणां विषये सम्राटचौधरी उक्तवान् यत् खण्ड, अञ्चल तथा थाना-स्तरे जनतायै उत्तमसेवाः प्रदातुं मुख्यमन्त्रीकार्यालयः (सीएमओ) प्रत्यक्षं निरीक्षणं करिष्यति। सः बिहारराज्ये लोकसेवाधिकारनियमः, भूमिपोर्टलः, ई-म्यूटेशन तथा ई-मैपिंग इत्यादीनि व्यवस्थाः अधिकं प्रभावीकरणाय आश्वासनं दत्तवान्।
सभायां चर्चाकाले मुख्यमन्त्री महत्त्वपूर्णां जनहितघोषणाम् अपि अकरोत्। सः उक्तवान् यत् अधुना मार्गदुर्घटनायां मृत्यौ पीडितपरिवाराय कुलं ८ लक्षरूप्यकाणां सहायता प्रदास्यते। तत्र ४ लक्षरूप्यकाणि बीमासंस्थया, ४ लक्षरूप्यकाणि राज्यसरकारेण च प्रदास्यन्ते। एषः निर्णयः विधायकानाम् आग्रहात् गृहीतः।
अन्ते मुख्यमन्त्री उक्तवान् यत् तस्य सर्वकारः जनहिताय, सुशासनाय, सुरक्षायै च पूर्णसमर्पणेन कार्यं करिष्यति तथा बिहारस्य विकासं नूतनगतिं दास्यति।-------------
हिन्दुस्थान समाचार