Enter your Email Address to subscribe to our newsletters

कोलकाता, 24 अप्रैलमासः(हि. स.)। पश्चिमबंगराज्यस्य विधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणस्य मतदानस्य अनन्तरं निर्वाचनआयोगेन पारदर्शितां निष्पक्षतां च सुनिश्चित्य नूतनाः कठोरव्यवस्थाः प्रवर्तिताः। आयोगेन मतदानकेन्द्रेषु स्थापितानां निगराणीकैम्राणां तेषु सुरक्षितस्य दृश्यदत्तांशस्य संरक्षणसम्बन्धिनः नूतननिर्देशाः अपि प्रकाशिताः।
निर्वाचनाधिकारिणाम् अनुसारं मतदानसमाप्तेः अनन्तरं त्वरितरूपेण कैम्राणां स्मृतिकार्डानि न निष्कास्यन्ते। केवलं कैम्राणि अपाकृत्य सेक्टरअधिकाऱिणः निरीक्षणे सुरक्षितानि स्थाप्यन्ते। स्मृतिकार्डानि निर्दिष्टदत्तांशसंग्रहणकेन्द्रे सहायकनिर्वाचनअधिकाऱिणः उपस्थितौ एव निष्कासयितुं शक्यन्ते।
आयोगेन स्पष्टतया उक्तं यत् दृश्यसामग्रीस्य पूर्णदायित्वं निश्चितं भविष्यति तथा तस्य अभिलेखः सुरक्षितः स्थाप्यते, यतः कस्यापि शिकायतायाः विवादस्य वा परीक्षायाः परिस्थितौ प्रमाणरूपेण उपलभ्येत। अनेन दत्तांशस्य विकृतिकरणस्य वा लोपस्य आशंका न्यूनतरा भविष्यति।
निर्वाचनआयोगस्य आँकडानुसारं पश्चिमबंगराज्यस्य विधानसभानिर्वाचनस्य २०२६ वर्षस्य प्रथमचरणे प्रायः ९३ प्रतिशतमतदानं अभवत्। ग्राम्यक्षेत्रेषु अनेकासु आसन्दीषु मतदानप्रतिशतं तस्मात् अपि अधिकं आसीत्, यत् मतदातॄणां सक्रियभागीदारीं दर्शयति।
अधिकारिणः वदन्ति यत् अधिकमतदानं निर्वाचनस्य संवेदनशीलता च दृष्ट्वा निगराणी-दृश्यसामग्रीणां संरक्षणं अत्यावश्यकम्। अतः मतदानोत्तरप्रक्रियासम्बन्धे कठोरनियमाः प्रवर्तिताः। पश्चिमबंगराज्ये द्वितीयचरणस्य मतदानं २९ एप्रिल् दिने भविष्यति, मतगणना च ४ मे दिने क्रियते।
हिन्दुस्थान समाचार