उत्तरप्रदेशस्य बांदा जातः देशस्य सर्वतोधिकोष्णजनपदः, सर्वकारेण निर्दिष्टा अवधानता
बांदा, 24 अप्रैलमासः (हि.स.)। उत्तर-प्रदेशस्य बांदा-जनपदः अस्मिन् समये भीषण-उष्णतायाः प्रभावे स्थितः अस्ति। गत-सप्ताहात् आरभ्य अत्र तापमानं निरन्तरं पञ्चचत्वारिंशत्-डिग्री-सेल्सियस-पर्यन्तं स्थितम् अस्ति, येन जनजीवनं अत्यन्तं प्रभावितम् अभवत्। म
मजदूरों को सलाह देते


बांदा, 24 अप्रैलमासः (हि.स.)।

उत्तर-प्रदेशस्य बांदा-जनपदः अस्मिन् समये भीषण-उष्णतायाः प्रभावे स्थितः अस्ति। गत-सप्ताहात् आरभ्य अत्र तापमानं निरन्तरं पञ्चचत्वारिंशत्-डिग्री-सेल्सियस-पर्यन्तं स्थितम् अस्ति, येन जनजीवनं अत्यन्तं प्रभावितम् अभवत्। मौसम-विभागस्य अनुसारं बांदा न केवलं प्रदेशे, अपि तु देशे अपि अत्युष्ण-जनपदेषु गणनीयः जातः अस्ति।

स्थितेः गम्भीरतां दृष्ट्वा शासनं पूर्णतया सतर्कं दृश्यते। विशेषतया श्रमिक-वर्गस्य सुरक्षां प्राथमिकतया स्वीकृत्य बुंदेलखंड-क्षेत्रस्य सर्वेभ्यः अधिकारिभ्यः निर्देशाः प्रदत्ताः यत् जनान् उष्णताया रक्षणाय निरन्तरं जागरूकाः क्रियन्ताम् तथा स्वास्थ्य-सेवाः पूर्णतया सुसज्जिताः स्युः।

प्रशासनस्य पक्षतः सामान्य-जनतायै अपील कृतम् यत् मध्याह्ने द्वादशवादनात् सायं चतुर्वादन-पर्यन्तं अत्यावश्यकता विना गृहात् बहिर्गमनं न कुर्वन्तु। श्रमिकेभ्यः विशेषतः उपदिष्टम् यत् ते अस्मिन् काले तीव्र-तापे कार्यं न कुर्वन्तु, किन्तु छायायुक्त-स्थानेषु एव कार्यं कुर्वन्तु।

निर्माण-स्थलेषु श्रमिकाणां कृते छाया-व्यवस्था तथा शीतल-पेय-जलस्य सुनिश्चितीकरणाय कठोर-निर्देशाः निर्गताः। शासनस्य स्पष्टः संदेशः अस्ति यत् अस्मिन् भीषण-उष्णतायां कस्यचित् अपि श्रमिकस्य स्वास्थ्ये प्रति अवहेलना न सह्यते।

उष्णतायाः प्रतिकारार्थं जनपद-प्रशासनेन आपदा-नियन्त्रण-कक्षः चतुर्विंशति-घण्टाः सतर्कः स्थापितः। चिकित्साविभागेन सह समन्वयं वर्धयित्वा आपत्कालीन-स्थितीनां निवारणाय सज्जता कृताऽस्ति।

कृषि-विश्वविद्यालयस्य मौसम-वैज्ञानिकः डॉक्टर दिनेश शाहा उक्तवान् यत् शुक्रवासरे बांदा-जनपदे अधिकतम-तापमानं पञ्चचत्वारिंशत्-डिग्री-सेल्सियसमितम् अभिलेखितम्। अपर-जिलाधिकारी कुमार धर्मेन्द्रः उक्तवान् यत् विंशतितमे अप्रिल्-दिनात् एव तापमानस्य तीव्र-वृद्धिः अभवत्।

प्रशासन-दत्त-निर्देशिकायां जनान् सावधानतां पालनाय आह्वानं कृतम्। सर्वे सरकारी-अस्पतालाः, सामुदायिक-स्वास्थ्य-केन्द्राणि तथा प्राथमिक-स्वास्थ्य-केन्द्राणि उष्ण-तरङ्गस्य प्रतिकाराय पूर्णतया सक्रियीकृतानि सन्ति।

अतिरिक्ततया नगरे संमर्दित-प्रदेशेषु जल-टैंकराः स्थापिताः सन्ति तथा वाटर-कूलर-व्यवस्था अपि सुनिश्चिती कृता। जनपदस्य प्रायः सप्तत्रिंशत्-सहस्र (३७,०००) हस्त-नलकूपानां नियमित-निरीक्षणाय अपि अधिकारिभ्यः निर्देशाः प्रदत्ताः।

------------------

हिन्दुस्थान समाचार