Enter your Email Address to subscribe to our newsletters

मुख्यमंत्रिणः सरमा इत्यस्य कथनम्- पश्चिम बंगाले 200 आसनानि जेष्यति भाजपादलम् कोलकाता, 24 अप्रैलमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री हिमन्तबिस्वसरमा शुक्रवासरे पश्चिमबङ्गालस्य कमरहाटीस्थाने आयोजितायां राजनैतिकसभायां भाषणं कृत्वा असमराज्ये अपि मतदातृसूच्याः विशेषगहनपुनरीक्षणस्य दृढतया समर्थनं कृतवान्। तेन उक्तं यत् मतदातृसूच्याः संशोधनं सत्यापनं च निर्वाचनव्यवस्थायाः विश्वसनीयतां सुदृढीकर्तुं अत्यावश्यकम् अस्ति।
सरमेन मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य प्रशंसा कृत्वा उक्तं यत् एतादृशकार्येषु तस्य योगदानं देशेन दीर्घकालपर्यन्तं स्मरिष्यते। सः अवदत्— “भारत रत्नः मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमाराय दातव्यः, यतः विशेषगहनपुनरीक्षणे तस्य योगदानं देशः न विस्मरिष्यति।”
असमस्य मुख्यमन्त्रिणः एतत् वक्तव्यं विशेषमहत्त्वपूर्णं मन्यते, यतः अस्मिन् राज्ये नागरिकता मतदातृपहिचानं मतदातृसूचिः इत्यादिषु विषयेषु दीर्घकालात् राजनैतिकविमर्शः प्रचलति। राष्ट्रियनागरिकपञ्जी अवैधप्रवेशस्य च विषयैः अयं विषयः सततं संवेदनशीलः अभवत्।
तेन उक्तं यत् यदि मतदातृसूच्याः नूतनं कठोरं च पुनरीक्षणं क्रियेत, तर्हि विसंगतिनिवारणे साहाय्यं भविष्यति तथा निर्वाचनप्रक्रियायाः विश्वसनीयता अपि अधिकं सुदृढा भविष्यति।
स्वभाषणे सरमेन पश्चिमबङ्गालराज्ये भारतीयजनतापक्षस्य अभ्यर्थिषु कथितानाम् आक्रमणानाम् अपि विषयं उद्घाटितवान्। सः चेतावनीं दत्त्वा उक्तवान्— “यदा पश्चिमबङ्गाले भारतीयजनतापक्षस्य शासनं भविष्यति, तदा अभ्यर्थिषु आक्रमणकर्तारः शिक्षां प्राप्स्यन्ति।”
सरमेन उभयोः राज्ययोः पक्षस्य निर्वाचनसंभावनां विषये अपि वक्तव्यं कृतम्। तेन उक्तं यत् भारतीयजनतापक्षः असमे शतं स्थानानि पश्चिमबङ्गाले द्विशतं स्थानानि च विजेष्यति।-------------
हिन्दुस्थान समाचार