Enter your Email Address to subscribe to our newsletters

बीकानेर-नगरम्, २४ अप्रैलमासः (हि.स.)। अभय-जैन-ग्रन्थालये राष्ट्रीय-स्वयंसेवक-सङ्घस्य (आरएसएस) प्रचारकाणां महत्त्वपूर्णं प्रेरणादायकं च भ्रमण-कार्यक्रमम् अभवत्। अस्मिन् अवसरे जोधपुर-प्रान्तस्य प्रचारकः श्याम-मनोहरः मुख्यतया उपस्थितः आसीत्। तेन सह विभागाध्यक्षः टेकचन्द-बरडिया तथा सेवा-विभागतः सवारलाल-मोदी अपि समागच्छताम्।
ग्रन्थालयस्य निदेशकः ऋषभ-नाहटा सर्वेषां अतिथीनां आत्मीयं स्वागतं कृतवान् तथा तान् ग्रन्थालयस्य विस्तृतं भ्रमणं कारितवान्। अस्मिन् काले प्रचारकाः अत्र संरक्षिताः दुर्लभ-पाण्डुलिपयः तथा तासां संरक्षण-संवर्धन-कार्यं समीपतः अवलोक्य प्रशंसितवन्तः।
उल्लेखनीयं यत् प्रचारकाः अत्र नरेन्द्रमोदिन: ‘मन की बात’ कार्यक्रमे अभय-जैन-ग्रन्थालयस्य उल्लेखं श्रुत्वा विशेषतया एतत् कार्यं द्रष्टुं आगतवन्तः आसन्। तैः एष: प्रयत्न: भारतीय-संस्कृतेः संरक्षण-दिशि अत्यन्तं महत्त्वपूर्णं पदम् इति उक्तम्।
अस्मिन् अवसरे “ज्ञान-भारतम्-मिशन” (संस्कृति-मन्त्रालयः, भारत-सर्वकारः) इत्यस्य अन्तर्गतं सञ्चालितस्य पाण्डुलिपि-संरक्षण-कार्यस्य अपि विवरणं प्रदत्तम्। उक्तं यत् अद्यावधि प्रायः २,२५,००० पृष्ठानां सफलतया स्कैनन-कार्यं सम्पन्नम् अस्ति, यत् भारतीय-ज्ञान-परम्परायाः संरक्षणे महती उपलब्धिः अस्ति।
कार्यक्रमे डॉ.सन्दीप-व्यासः, नवरत्न-चोपड़ा, लवकुमार-देराश्री, मोहित-बिस्सा, लक्ष्मीकान्त-उपाध्यायः, गौरव-आचार्यः इत्यादयः बहवः गणमान्य-जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता