Enter your Email Address to subscribe to our newsletters

नवदेहली, २४ अप्रैलमासः (हि.स.)। देशस्य समुद्री-क्षेत्रस्य विकासाय, क्षमता-निर्माणाय तथा कौशल-आधारित-शिक्षायाः प्रोत्साहनाय केन्द्रीय-बन्दरगाह-पोत-परिवहन-एवं-जलमार्ग-मन्त्रालयेन दिल्ली-विश्वविद्यालयेन तथा दिल्ली-स्कूल-ऑफ-इकोनॉमिक्स इत्यनेन सह महत्त्वपूर्णानि सहमति-पत्राणि (एम.ओ.यू.) हस्ताक्षरितानि।
अनेन सहमत्याः माध्यमेन मैरिटाइम-शिक्षा, प्रशिक्षणं, कौशल-विकासः, अनुसन्धानम्, पाठ्यक्रम-निर्माणं तथा रोजगारोन्मुख-कार्यक्रमाः प्रोत्साहिताः भविष्यन्ति, येन समुद्री-क्षेत्राय दक्ष-मानव-संसाधनस्य निर्माणं भवेत्।
दिल्ली-स्कूल-ऑफ-इकोनॉमिक्स् इत्यस्य स्वामी-विवेकानन्द-सभागारे आयोजिते कार्यक्रमे केन्द्रीय-मन्त्री सर्वानन्द-सोनोवालः मुख्यातिथिरूपेण उपस्थितः आसीत्। तत्र रिसर्च-एण्ड-इन्फॉर्मेशन-सिस्टम-फॉर-डेवलपिंग-कंट्रीज इत्यस्य महानिदेशकः प्रो.सचिन-कुमार-शर्मा, दिल्ली-विश्वविद्यालयस्य कुलपतिः प्रो.योगेश-सिंहः, डी.एस.ई.-निदेशकः तथा अन्ये शिक्षाविदः, नीतिविशेषज्ञाः, छात्राः च उपस्थिताः आसन्।
सहमत्याः अन्तर्गतं समुद्री-क्षमता-निर्माणं, कौशल-विकास-कार्यक्रमाः, विश्वविद्यालय-स्तरीय-पाठ्यक्रम-विकासः, प्रशिक्षण-सामग्री-निर्माणं, संयुक्त-अनुसन्धान-परियोजनाः, संगोष्ठी-समारोहाः तथा प्रकाशन-द्वारा ज्ञान-विस्तारः भविष्यति। छात्रेभ्यः रोजगार-मार्गदर्शनं अपि प्रदास्यते तथा ‘मैरिटाइम-अमृतकाल-विजन २०४७’ अन्तर्गतं विशेष-प्रशिक्षणं दास्यते।
मन्त्री सर्वानन्द-सोनोवालः उक्तवान् यत् मैरिटाइम-क्षेत्रं भारतस्य अर्थव्यवस्थां गतिं दास्यति तथा विकसित-भारत-लक्ष्यस्य प्राप्तौ महत्त्वपूर्णं योगदानं करिष्यति। सः अवदत् यत् देशस्य ९५ प्रतिशतात् अधिकः व्यापारः समुद्री-मार्गेण एव भवति, अतः अस्य क्षेत्रस्य समग्र-विकासः आवश्यकः अस्ति।
सः अपि सूचितवान् यत् ११,००० किलोमीटर्-दीर्घा तटरेखा, १२ प्रमुख-पत्तनानि, २००+ लघु-पत्तनानि तथा १११ राष्ट्रीय-जलमार्गाः सन्ति, येषां सुदृढीकरणं सरकारेण क्रियते। २०२५-२६ वर्षे प्रमुख-पत्तनैः ९१५ मिलियन-टन-परिमितं कार्गो-प्रबन्धनं कृतम्, तथा २०३० वर्षपर्यन्तं जलमार्ग-क्षमता २०० मिलियन-टनं कर्तुं लक्ष्यं निर्धारितम् अस्ति।
प्रो. सचिन-कुमार-शर्मा उक्तवान् यत् अनेन सहमत्याः माध्यमेन कौशल-प्रशिक्षणं सुदृढं भविष्यति तथा वैश्विक-स्तरे प्रतिस्पर्धायाः क्षमता वर्धिष्यते। कुलपतिः योगेश-सिंहः अवदत् यत् विश्वविद्यालयेषु नूतन-कोर्स-डिप्लोमा-कार्यक्रमाः आरभ्यन्ते, येन छात्रेभ्यः व्यावहारिक-अनुभवः रोजगार-अवसराः च प्राप्स्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता