Enter your Email Address to subscribe to our newsletters

नवदेहली, २४ अप्रैलमासः। राष्ट्रिय-पञ्चायती-राज-दिवसस्य अवसरे उपराष्ट्रपतिना, केन्द्रीय-गृहमन्त्रिणा, रक्षामन्त्रिणा च अन्यैः नेतृभिः देशवासिभ्यः शुभकामनाः प्रदत्ताः तथा पञ्चायती-राज-संस्थाः लोकतन्त्रस्य सुदृढ-नीविरूपेण वर्णिताः।
उपराष्ट्रपतिः उक्तवान् यत् पञ्चायती-राजः जमीनी-लोकतन्त्रस्य प्रतीकः अस्ति, यः ग्राम-स्तरीये जनसहभागितां सशक्तां करोति तथा ‘विकसित-भारत’-निर्माणे महत्त्वपूर्णं योगदानं ददाति।
रक्षामन्त्री राजनाथसिंहः पंचायतानां सुदृढीकरणाय सरकारस्य प्रतिबद्धतां प्रकटितवान्। गृहमन्त्री अमित-शाहः पंचायत-व्यवस्थां लोकतन्त्रस्य आधारभूत-विभागम् उक्तवान्, या ग्रामीण-विकासे महतीं भूमिकां वहति।
विदेशमन्त्री जयशङ्करः, कृषि-मन्त्री शिवराजसिंह-चौहानः च अपि शुभकामनाः दत्वा जनसहभागितां ग्राम-विकासस्य मूलाधारं उक्तवन्तौ।
विपक्ष-नेता राहुल-गान्धी पंचायत-व्यवस्थां ग्राम-स्वराजस्य आधारं मन्यते तथा महिला-सशक्तीकरणस्य माध्यमं च उक्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता