Enter your Email Address to subscribe to our newsletters

नवदेहली, २४ अप्रैलमासः (हि.स.)। राष्ट्रीय-मानवाधिकार-आयोगेन (एन.एच.आर.सी.) ओडिशा-राज्यस्य गजपति-जनपदे एकस्मिन् सर्वकारी-प्राथमिक-विद्यालये लौहेन-निर्मितस्य द्वारस्य पतनेन द्वयोः छात्रयोः कथित-मृत्योः विषये स्वतः संज्ञानं गृहीतम्।
आयोगेन एतां घटनां गम्भीरां मन्यमानः ओडिशा-सर्वकारस्य मुख्य-सचिवा तथा गजपति-जनपदे आरक्षक-अधीक्षकाय (एस.पी.) सूचनां सम्प्रेष्य द्विसप्ताहाभ्यन्तरे विस्तृत-प्रति-वेदनं प्रस्तोतुं निर्देशः दत्तः। आयोगेन उक्तं यत् अस्याः घटनायाः कारणेन बालकानां सुरक्षा-व्यवस्थायाः विषये गम्भीराः प्रश्नाः उत्पन्नाः सन्ति, अतः सम्यक् अन्वेषणं आवश्यकम् अस्ति।
आयोगस्य अनुसारं १६ अप्रैल २०२६ दिनाङ्के प्रकाशित-माध्यम-प्रतिवेदनानाम् आधारेण एतत् संज्ञानं गृहीतम्। प्रतिवेदनानुसारं १५ अप्रैल-दिने गजपति-जनपदे स्थिते एकस्मिन् सर्वकारी-प्राथमिक-विद्यालये लौहेन निर्मितं मुख्य-द्वारम् अकस्मात् पतितम्, यस्य आघातेन द्वे छात्रे गम्भीरतया आहताः अभवताम्।
ततः अनन्तरं उभे छात्रे समीपस्थ-चिकित्सालये नीते, यत्र चिकित्सकैः तयोः मृत्युः घोषितः। अस्या: दुःखद-घटनायाः पश्चात् क्षेत्रे शोक-आक्रोशयोः वातावरणं वर्तते। स्थानीय-जनैः विद्यालयस्य सुरक्षा-व्यवस्थां प्रति प्रश्नाः उत्थापिताः तथा उत्तरदायिनां विरुद्धं कार्यवाहीं याचितवन्तः।
आयोगेन स्पष्टं कृतं यत् यदि माध्यम-प्रतिवेदनं सत्यं भवति, तर्हि एषः मानवाधिकार-उल्लङ्घनस्य गम्भीरः विषयः अस्ति। विशेषतः बालकानां सुरक्षा-व्यवस्था: प्रति प्रशासनिक-शिथिलता-संशयेन आयोगेन विस्तृत-प्रति-वेदनं याचितम्।
अधुना आयोगः राज्य-सर्वकारात् ज्ञातुम् इच्छति यत् विद्यालय-परिसरे सुरक्षा-मानकानां पालनं किमर्थं न कृतम् तथा अस्य घटनायाः उत्तरदायिनां विरुद्धं का कार्यवाही कृता। प्रतिवेदन-प्राप्त्यनन्तरं आयोगः अग्रे कार्यवाहीं निर्धारयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता