एनआरएलएम : बलरामपुरस्य सोनमणिः संजाता ‘लखपति दीदी’इत्येषा, कृषिपशुपालनाभ्यां वर्धितवती आयम्
बलरामपुरम्, 24 अप्रैलमासः (हि.स.)।ग्रामीणमहिलानां सशक्तीकरणस्य दिशि राष्ट्रीयग्रामीणाजीविकामिशनम् (एनआरएलएम) बलरामपुरजिले नूतनां दृष्टान्तं स्थापयति। अस्याः एव पहलायाः माध्यमेन साधारणा महिला सोनमणि अधुना आत्मनिर्भरत्वं प्राप्तवती “लखपतिदिदी” इति रू
लखपति दीदी।


बलरामपुरम्, 24 अप्रैलमासः (हि.स.)।ग्रामीणमहिलानां सशक्तीकरणस्य दिशि राष्ट्रीयग्रामीणाजीविकामिशनम् (एनआरएलएम) बलरामपुरजिले नूतनां दृष्टान्तं स्थापयति। अस्याः एव पहलायाः माध्यमेन साधारणा महिला सोनमणि अधुना आत्मनिर्भरत्वं प्राप्तवती “लखपतिदिदी” इति रूपेण स्वपरिचयं निर्मितवती।

जिले ग्रामीणमहिलाः अधुना आर्थिकस्वावलम्बनस्य दिशि शीघ्रं प्रगच्छन्ति। राष्ट्रियग्रामीणाजीविकामिशनस्य सहयोगेन सहस्रशः महिलाः स्वजीविकायाः नूतनस्रोतांसि विकसितवन्त्यः। अस्मिन् क्रमि जनपदपञ्चायत् बलरामपुरस्य घाघराग्रामे गठितस्य प्रभुमहिलास्वसहायतासमूहस्य सदस्या सोनमणि आत्मनिर्भरत्वस्य उत्कृष्टदृष्टान्तः अभवत्।

सोनमण्या स्वस्य एकैकरे भूमिक्षेत्रे मक्का-कृषिः आरब्धा, यस्मिन् प्रायः ५००० रूप्यकाणां निवेशः कृतः। अस्याः कृषेः फलरूपेण तस्यै प्रायः ४५००० रूप्यकाणां आयः भविष्यति इति अपेक्षा अस्ति, यत् तस्याः आर्थिकस्थितिं सुदृढीकर्तुं महत्त्वपूर्णं पदम् अस्ति।

अतिरिक्तं समूहात् प्राप्तस्य ऋणस्य उपयोगेन तया कुक्कुटपालनं छागपालनं सूकरपालनं च इत्यादीनि आयवर्धककार्याणि अपि आरब्धानि। एताभिः विविधाभिः क्रियाभिः सा स्वपरिवारस्य आयं विशेषरूपेण वर्धितवती तथा आर्थिकस्थैर्यं प्राप्तवती।

एनआरएलएमदत्तेन प्रशिक्षणेन वित्तीयसहाय्येन सततम् मार्गदर्शनेन च सोनमणिः अद्य “लखपतिदिदी” इति वर्गं प्राप्तवती। जिला पञ्चायत् तथा एनआरएलएमदलस्य द्वारा अन्याः महिलाः अपि आजीविकावर्धनाय उद्यमितायै च निरन्तरं प्रेर्यन्ते, येन ग्रामीणअर्थव्यवस्था सुदृढा भवति।

जिलापञ्चायत् मुख्यकार्यपालनधिकारी नयनतारासिंहतोमरस्य मार्गदर्शनेन जिल्लायां स्वसहायतासमूहानां क्रियाः निरन्तरं प्रोत्साह्यन्ते। अस्य परिणामतः ग्रामीणमहिलाः आत्मनिर्भराः भूत्वा सशक्तसमाजनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।

हिन्दुस्थान समाचार