नेपाल सर्वकारः कर्मचारिभ्यः त्रीन् मासान् यावत् विदेश यात्रां न कर्तुं निर्दिष्टवान्
काठमांडूः, 24 अप्रैलमासः (हि.स.)। नेपालसर्वकारेण आगामित्रिमासपर्यन्तं कस्यापि कर्मचारिणः विदेशयात्रा निषिद्धा इति निर्देशः प्रदत्तः। प्रधानमन्त्रिणः मन्त्रिपरिषदः कार्यालयेन च मन्त्रालयेभ्यः आयोगेभ्यः सर्वेभ्यः सम्बद्धसंस्थाभ्यः पत्रं प्रेष्य एषा
नेपाल सरकार कैबिनेट बैठक


काठमांडूः, 24 अप्रैलमासः (हि.स.)।

नेपालसर्वकारेण आगामित्रिमासपर्यन्तं कस्यापि कर्मचारिणः विदेशयात्रा निषिद्धा इति निर्देशः प्रदत्तः। प्रधानमन्त्रिणः मन्त्रिपरिषदः कार्यालयेन च मन्त्रालयेभ्यः आयोगेभ्यः सर्वेभ्यः सम्बद्धसंस्थाभ्यः पत्रं प्रेष्य एषा व्यवस्था प्रवर्तयितुम् उक्तम्।

सरकारस्य गतस्य २८ मार्च दिनाङ्कस्य निर्णयानुसारं अनुमोदिताः प्रशासनिकसुधारसम्बद्धाः शतं कार्यसूचयः उच्चप्राथमिकतया कार्यान्वीयन्ते। अस्यैव सन्दर्भे प्रधानमन्त्रिकायालयेन एषः निर्देशः निर्गतः।

निर्देशे उक्तं यत् कर्मचारिणां विदेशगमनात् सर्वकारस्य शतकार्यसूचीनां कार्यान्वयने बाधा उत्पद्येत, अतः आगामिषु त्रिषु मासेषु कस्यापि कर्मचारिणः वैदेशिकभ्रमणाय नामनिर्देशनं मा क्रियतामिति अनुरोधः कृतः।

---------------

हिन्दुस्थान समाचार