प्रधानमंत्रिणं मोदिनं नौकायां भ्रामयितृ नाविकेन श्रावितः अनुभवः, अवदत्- स्वप्नस्य क्षणम् , समम्उषितुं दत्तः संदेशः
कोलकाता, 24 अप्रैलमासः (हि.स.)। शुक्रवासरे प्रातःकाले प्रधानमंत्रिणो मोदिनः हुगलीनद्यां नौकाविहारस्य समये नाविकाः तथा नौकास्वामिनः एतत् अनुभवं स्मरणीयं भावुकं च क्षणम् इति उक्तवन्तः। ते अवदन् यत् अन्तिमक्षणपर्यन्तं तेषां ज्ञानं न आसीत् यत् तेषां नौ
गंगा घाट पर लोगों से मिलते पीएम मोदी


कोलकाता, 24 अप्रैलमासः (हि.स.)। शुक्रवासरे प्रातःकाले प्रधानमंत्रिणो मोदिनः हुगलीनद्यां नौकाविहारस्य समये नाविकाः तथा नौकास्वामिनः एतत् अनुभवं स्मरणीयं भावुकं च क्षणम् इति उक्तवन्तः। ते अवदन् यत् अन्तिमक्षणपर्यन्तं तेषां ज्ञानं न आसीत् यत् तेषां नौकायां देशस्य प्रधानमन्त्री आरूढः भविष्यति।

प्रधानमन्त्रिणः गङ्गानद्यां नौकाविहारं कर्तुं सहायं कृतवान् नाविकः गौराङ्ग बिस्वास अवदत् यत् तस्मै विश्वासः एव न आसीत् यत् देशस्य प्रधानमन्त्री तस्य नौकायां उपविशिष्यति। सः अवदत् यत् यात्रायाः समये प्रधानमन्त्रिणा स्वकैमरेण एव चित्राणि गृहीतानि, तस्य निर्देशेन च नौका गङ्गायाः मध्यधारां प्रति नीताऽभवत्।

गौराङ्ग बिस्वास पुनः अवदत् यत् प्रधानमन्त्रिणा केवलं एकवारं तस्य नाम पृष्टं, ततः सः शान्तभावेन परिसरस्य दृश्यसौन्दर्यस्य आनन्दं अनुभवन् आसीत्। सः अवदत् यत् सः अत्यन्तं हृष्टः अस्ति, एषः अनुभवः तस्य कृते स्वप्नवत् अस्ति।

अन्यतः प्रधानमन्त्रिणः यात्रायै नौकां प्रदत्तवान् नौकास्वामी मोहम्मद इफ्तिखार अहमद अपि सम्पूर्णं घटनाक्रमं अवदत्। सः अवदत् यत् प्रातःकाले अत्र कार्यं कुर्वन् कश्चित् व्यक्तिः तस्मात् सप्त नौकानां याचनां कृतवान्। यदा तेन पृष्टं यत् कस्यचित् विशेषपुरुषस्य कृते नौका अपेक्षिता किम्, तदा उत्तरं प्राप्तं यत् किञ्चित् विशेषं नास्ति।

ततः सः अवदत् यत् सर्वाः नौकाः घाटे सज्जीकृताः। प्रधानमन्त्रिणः आगमनात् पञ्चनिमेषपूर्वं तस्मै सूचितं यत् देशस्य प्रधानमन्त्री आगच्छति। प्रातःविहारानन्तरं प्रधानमन्त्री घाटं प्राप्तवान् तथा तस्य नौकायां आरूढः। मोहम्मद इफ्तिखार अहमद अवदत् यत् प्रधानमन्त्रिणा नाविकैः सह संवादसमये उक्तं यत् सर्वे जनाः परस्परं सौहार्देन भ्रातृत्वेन च सह वसेयुः।

उल्लेखनीयं यत् पश्चिमबङ्गराज्यस्य निर्वाचनपरिस्थितौ शुक्रवासरे प्रातःकाले नरेंद्रमोदी कोलकातानगरे गङ्गातटं गतवान्, यत्र तेन नौकाविहारः कृतः, जनैः सह मिलनं कृतं, तथा गङ्गामातरं प्रति श्रद्धा व्यक्ता। अस्य यात्रायाः चित्राणि चलच्चित्राणि च सामाजिकमाध्यमेषु शीघ्रं प्रसारितानि भवन्ति।

हिन्दुस्थान समाचार