प्रियंका चोपड़ायै लप्स्यते 'ग्लोबल वैंगार्ड ऑनर इत्येषः पुरस्कारः'
अभिनेत्र्याः प्रियंका चोपड़ायाः अन्ताराष्ट्रिय कार्यजीवने पुनः एका महत्त्वपूर्णा उपलब्धिः। गोल्ड हाउस द्वारा आयोजित ‘गोल्ड गाला २०२६’ नामक समारोहे तस्यै प्रतिष्ठितः ‘ग्लोबल वैंगार्ड ऑनर’ इति सम्मानः प्रदास्यते। अयं समारोहः ९ मई दिनाङ्के लॉस एंजिल्
प्रियंका चोपड़ा - फोटो सोर्स एक्स


अभिनेत्र्याः प्रियंका चोपड़ायाः अन्ताराष्ट्रिय कार्यजीवने पुनः एका महत्त्वपूर्णा उपलब्धिः। गोल्ड हाउस द्वारा आयोजित ‘गोल्ड गाला २०२६’ नामक समारोहे तस्यै प्रतिष्ठितः ‘ग्लोबल वैंगार्ड ऑनर’ इति सम्मानः प्रदास्यते।

अयं समारोहः ९ मई दिनाङ्के लॉस एंजिल्स नगरस्य डाउनटाउन-प्रदेशे स्थिते ‘द म्यूजिक सेंटर’ इति स्थले आयोज्यते, यत्र मनोरंजन तथा कला-जगतः अनेकाः अन्तरराष्ट्रीय-प्रसिद्धाः व्यक्तयः उपस्थिताः भविष्यन्ति।

प्रियंका चोपड़ायै एषः सम्मानः चलचित्रक्षेत्रे तस्याः पञ्चविंशतिवर्षीय-योगदानस्य तथा एशिया-प्रशान्त-संस्कृतेः वैश्विक-स्तरे प्रतिष्ठापनायाः भूमिकायाः कारणेन दीयते। गोल्ड हाउसस्य मतानुसारं सा भारतीय-चलच्चित्र-जगतः तथा हॉलीवुड् इत्येतयोः मध्ये दृढं सेतुं निर्मितवती, स्वप्रतिभया च विश्वे विशिष्टां ख्यातिं प्राप्तवती।

अस्मिन् समारोहे चार्ल्स मेल्टन, जेट ली, सिमु लियू तथा ईजेएई इत्यादयः अन्ये अपि प्रसिद्धाः व्यक्तयः सम्मानिताः भविष्यन्ति।

‘गोल्ड गाला’ इत्यस्य अयं पञ्चमः संस्करणः भविष्यति, यस्मिन् विभिन्नक्षेत्रेभ्यः आगताः ६५० अधिकाः अतिथयः ‘गोल्ड १००’ सूचीस्थ-व्यक्तीनां अभिनन्दनाय एकत्र भविष्यन्ति। अस्यां सूच्यां प्रियंका चोपड़ायाः नाम सम्मिलितम् अस्ति, यत् तस्याः वर्धमानं वैश्विकप्रभावं दर्शयति।

अभिनयेन सह सा स्वस्य ‘पर्पल पेबल पिक्चर्स’ इति निर्माणसंस्थया अपि अनेकासु महत्त्वपूर्णासु परियोजनासु संलग्ना अस्ति।

गतवर्षेषु प्रियंका चोपड़ा अन्तरराष्ट्रीय-स्तरे स्वस्य विशिष्टां पहचानं निर्मितवती। तस्याः नाम ‘टाइम १००’ तथा ‘फोर्ब्स’ इत्यस्य प्रभावशाली-नारीणां सूचीषु अपि समाविष्टम्।

आगामिकाले सा एस एस राजामौली इत्यस्य निर्देशने ‘वाराणसी’ इति चित्रपटे दृश्यते, यस्मिन् तया सह महेश बाबू तथा पृथ्वीराजसुकुमारन् अपि प्रमुख-भूमिकासु भविष्यतः।

हिन्दुस्थान समाचार