प्रधान-न्यायाधीशः सूर्यकान्तः पश्चिमबङ्ग-राज्ये अधिकमतदानं जातम् इति दृष्ट्वा सन्तोषं प्रकटितवान्
नवदेहली, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-राज्ये प्रथम-चरणे ९२ प्रतिशतात् अधिकं मतदानं जातम् इति दृष्ट्वा प्रधान-न्यायाधीशः सूर्यकान्तः सन्तोषं प्रकटितवान्। सः उक्तवान् यत् भारत-नागरिकत्वेन सः मतदान-प्रतिशतं दृष्ट्वा अत्यन्तं प्रसन्नः अस्ति, यतः य
सुप्रीम कोर्ट (फाइल फाेटाे)


नवदेहली, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-राज्ये प्रथम-चरणे ९२ प्रतिशतात् अधिकं मतदानं जातम् इति दृष्ट्वा प्रधान-न्यायाधीशः सूर्यकान्तः सन्तोषं प्रकटितवान्। सः उक्तवान् यत् भारत-नागरिकत्वेन सः मतदान-प्रतिशतं दृष्ट्वा अत्यन्तं प्रसन्नः अस्ति, यतः यदा जनाः मतदाने भागं गृह्णन्ति तदा लोकतन्त्रं सुदृढं भवति तथा हिंसायाः न्यूनता जायते।

न्यायाधीशः बागची अपि अवदत् यत् प्रमुखा हिंसात्मक-घटना न अभवत्। सॉलिसिटर-जनरलः तुषार-महता उक्तवान् यत् ९२ प्रतिशतं मतदानं ऐतिहासिकम् अस्ति तथा निर्वाचनं प्रायः शांतिपूर्णमेव अभवत्, यत्र केचन घटनाः अपवादरूपेण आसन्। तेन केन्द्रीय-बलानां कार्यं प्रशंसितम्।

न्यायाधीशः बागची पुनः उक्तवान् यत् राज्ञां मध्ये युद्धं भवति, किन्तु तस्मिन् सामान्यजनानां जीवनं हन्यते इति चिन्तनीयम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता