शांभवी दिव्यांशुश्च कनिष्ठविश्वकीर्तिमानेन सह मिक्स्ड टीम एयर राइफल इत्यत्र अजयतां स्वर्णम्
नवदिल्ली, 24 अप्रैलमासः (हि.स.)।भारतस्य १० मीटर् एअर् राइफल् मिश्रदले शांभवीक्षीरसागरः दिव्यांशुदेवाङ्गनः च ४९९.९ इति कनिष्ठविश्वकीर्तिसमानान् अंकान् प्राप्य स्वर्णपदकं जितवन्तौ, येन आईएसएसएफ् जूनियर् वर्ल्ड् कप् स्पर्धायां भारताय चतुर्थं स्वर्णं प
भारत की 10 मीटर एयर राइफल मिक्स्ड टीम जोड़ी शांभवी क्षीरसागर और दिव्यांशु देवांगन


नवदिल्ली, 24 अप्रैलमासः (हि.स.)।भारतस्य १० मीटर् एअर् राइफल् मिश्रदले शांभवीक्षीरसागरः दिव्यांशुदेवाङ्गनः च ४९९.९ इति कनिष्ठविश्वकीर्तिसमानान् अंकान् प्राप्य स्वर्णपदकं जितवन्तौ, येन आईएसएसएफ् जूनियर् वर्ल्ड् कप् स्पर्धायां भारताय चतुर्थं स्वर्णं प्राप्तम्। अस्याः पूर्वं एताभ्यां ६३२.० इति संयुक्तान् प्राप्य क्वालिफिकेशन्-चक्रे प्रथमस्थानं प्राप्तम्।

चीनी-ताइपे-देशस्य त्साई चिएह-यिङ्ग् चेन यू-आन् च इत्येतयोः युगलं ४९८.३ अंकान्प्राप्य रजतपदकं जितम्, फ्रांसदेशस्य टिफेन पोमेस् गैस्पार्ड् लेसिएर् च इत्येतयोः युगलं ४३४.४ स्कोरं प्राप्त्वा कांस्यपदकं प्राप्तम्।

पुरुषाणां कनिष्ठ-२५ मीटर् रैपिड्-फायर् पिस्टल् स्पर्धायां भारतस्य समीरः ५७३ अंकान्प्राप्य क्वालिफिकेशन्-चक्रे द्वितीयस्थानं लब्ध्वा अन्तिमचक्रे प्रवेशं कृतवान्। फ्रांसदेशस्य अर्नॉ गामालेरी ५८९ स्कोरं कृत्वा कनिष्ठविश्वकीर्तेः समता कृतवान्।

अन्तिमचक्रे समीरः सप्तमस्थानं प्राप्तवान्, यत्र अष्ट-शृंखलायुक्ते अन्तिमचक्रे प्रारम्भिकासु त्रिषु पञ्च-शॉट्-शृंखलासु सप्त हिट् अभिलेखितवान्। गामालेरी २९ हिट् प्राप्त्वा स्वर्णपदकं जितवान्।

काहिरानगरे प्रचलति अस्मिन् जूनियर् वर्ल्ड् कप् स्पर्धायां भारतः अद्यपर्यन्तं द्वादश पदकानि जितवान्—चत्वारि स्वर्णपदकानि, पञ्च रजतपदकानि, त्रयः कांस्यपदकानि च—एवं पदकतलिकायां शीर्षस्थाने अस्ति। स्पर्धायाः अद्यापि द्वौ दिनौ अवशिष्टौ स्तः, ययोः षट् स्वर्णपदकानि अपि स्पर्धायां स्थापिताानि।

---------------

हिन्दुस्थान समाचार