सूक्ष्मेषु उर्वरकेषु जागरूकाः संजाताः कृषकाः, लहौरायां चलितं विशेषेण अभियानम्
मीरजापुरम्, 24 अप्रैलमासः (हि.स.)। राजगढ़विकासखंडस्य लहौरा ग्रामे शुक्रवासरे पीएम प्रणाम योजना अन्तर्गतं इफको द्वारा नैनोजागरूकताअभियानम् मृदापरीक्षणकार्यक्रमः च आयोजितः। अस्मिन् कार्यक्रमे बहवः कृषकाः सहभागित्वा आधुनिककृषेः नूतनविधीनां ज्ञानं प्
इफको की ओर से नैनो जागरूकता अभियान


मीरजापुरम्, 24 अप्रैलमासः (हि.स.)।

राजगढ़विकासखंडस्य लहौरा ग्रामे शुक्रवासरे पीएम प्रणाम योजना अन्तर्गतं इफको द्वारा नैनोजागरूकताअभियानम् मृदापरीक्षणकार्यक्रमः च आयोजितः। अस्मिन् कार्यक्रमे बहवः कृषकाः सहभागित्वा आधुनिककृषेः नूतनविधीनां ज्ञानं प्राप्तवन्तः।

इफको संस्थायाः क्षेत्रीयप्रबन्धकः आशीषश्रीवास्तव कृषकान् प्रति नैनोडीएपी तथा नैनोयूरियाप्लस् इत्येतयोः लाभान् वर्णयन् अवदत् यत् एतेन फसलेषु संतुलितपोषणं लभ्यते, येन उत्पादनवृद्धिः भवति तथा व्ययः न्यूनः भवति। सह पर्यावरणे अपि अस्य सकारात्मकः प्रभावः दृश्यते।

अपरजिलाकृषिअधिकारी कुंवरसतेन्द्रसिंह मृदापरीक्षणस्य महत्त्वं प्रतिपाद्य संतुलितउर्वरकप्रयोगस्य परामर्शं दत्तवान्।

कार्यक्रमे उपस्थितः मायाशंकरसिंह स्वानुभवान् साझीकृत्य कृषकान् नैनोउर्वरकप्रयोगाय प्रेरितवान्। अस्मिन् सन्दर्भे बीजोपचारः छिड़कावविधिः अन्येषां उर्वरकाणां विषये अपि जानकारी प्रदत्ता।

अन्ते कृषकाः सूक्ष्मान्उर्वरकान् स्वीकर्तुं संकल्पं कृतवन्तः।

---------------

हिन्दुस्थान समाचार