अङ्गे, बङ्गे च कलिङ्गे च अग्रिममासे भाजपा-सर्वकारः भविष्यति इति अमितशाहः उक्तवान्
कोलकातानगरम्, २४ अप्रैलमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः कोलकातायां पत्रकारसम्मेलने उक्तवान् यत् अग्रिममासे अङ्गे (बिहार), बङ्गे (पश्चिमबङ्गे) तथा कलिङ्गे (ओडिशा) प्रदेशेषु भाजपा-सर्वकाराः भविष्यन्ति। सः अवदत् यत् पश्चिमबङ्ग-विधानसभानिर्व
अमित शाह


कोलकातानगरम्, २४ अप्रैलमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः कोलकातायां पत्रकारसम्मेलने उक्तवान् यत् अग्रिममासे अङ्गे (बिहार), बङ्गे (पश्चिमबङ्गे) तथा कलिङ्गे (ओडिशा) प्रदेशेषु भाजपा-सर्वकाराः भविष्यन्ति।

सः अवदत् यत् पश्चिमबङ्ग-विधानसभानिर्वाचनस्य प्रथमचरणे महता उत्साहेन मतदानं जातम् तथा जनता परिवर्तनम् इच्छति। सः भाजपा-दलस्य विजयस्य आशां व्यक्तवान्।

तृणमूल-कांग्रेस-सर्वकारं प्रति आरोपं कुर्वन् सः उक्तवान् यत् राज्ये भ्रष्टाचारः, हिंसा तथा महिला-सुरक्षायाः समस्या वर्धते। सः उक्तवान् यत् भाजपा-सरकारे भ्रष्टाचारस्य अन्वेषणं कृत्वा दोषिणः दण्डं प्राप्स्यन्ति।

सः महिला-सुरक्षां, विकासं तथा अवैध-अतिक्रमण-निवारणं भाजपा-सर्वकारस्य प्राथमिकतां घोषितवान्। अन्ते सः मतदातृभ्यः परिवर्तनाय मतदानं कर्तुं आह्वानं कृतवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता