Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-राज्ये विधानसभानिर्वाचनस्य द्वितीयचरणस्य मतदानात् पूर्वं भारतीयजनता-पक्षस्य (भाजपा) वरिष्ठनेता प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे दमदम-नगर्यां विशाल-जनसभां सम्बोधयन् राज्यस्य न्याय-व्यवस्था, महिला-सुरक्षा तथा राजनैतिक-परिवर्तनविषये तृणमूल-कांग्रेस-सर्वकारं प्रति तीव्रं प्रहारं कृतवान्। अस्मिन् अवसरे आर.जी.कर-प्रकरणस्य पीडितायाः मातुः तथा पनिहाटी-नगरेण भाजपा-अभ्यर्थी रत्नदेबनाथः अपि मंचे उपस्थितौ आस्ताम्।
प्रधानमन्त्री मोदी स्वसम्बोधने उक्तवान् यत् “भाजपा-सर्वकार-स्थापनानन्तरं सर्वाः पुरातनाः पत्रावल्यः उद्घाटिष्यन्ते तथा न्यायः करिष्यते।” सः अवदत् यत् सः बंगालस्य सर्वाः पुत्रीः आश्वासयितुं आगतः यत् भाजपा तेषां स्वप्नान् न नाशयिष्यति। सः अपि उक्तवान् यत् सभास्थले आगमनकाले एका भगिनी तस्मै रक्षासूत्रं (राखी) अर्पितवती, तदनन्तरं सः महिला-सुरक्षां स्वस्य सर्वोच्च-प्राथमिकतां घोषितवान्।
सः अवदत् यत् महिलाविरुद्ध-अत्याचारसम्बद्धाः पुरातनाः प्रकरण-पत्रावल्यः पुनः उद्घाट्यन्ते, तथा दोषिणः कठोरदण्डं प्राप्स्यन्ति। प्रधानमन्त्री आरोपं कृतवान् यत् राज्ये महिलाः न्यायं याचन्ते, किन्तु तेषां संरक्षणस्य स्थाने मौनं धारयितुं उपदेशः दीयते।
मुख्यमन्त्री ममता-बनर्जी-सर्वकारं प्रति आलोचनां कुर्वन् प्रधानमन्त्री उक्तवान् यत् पश्चिमबङ्गे कानून-व्यवस्था निरन्तरं दुर्बला अभवत्। सः अवदत् यत् एका माता स्वपुत्रीं वैद्यकं (डॉक्टर) कृतवती, किन्तु तृणमूल-कांग्रेस-शासनकाले सा तस्याः जीवनं नष्टं जातम् इति अत्यन्तं पीडाकरं स्थितिः अस्ति।
प्रधानमन्त्री मोदी नेताजी-सुभाषचन्द्रबोसस्य उल्लेखं कुर्वन् उक्तवान् यत् तेन देशाय स्वातन्त्र्य-सन्देशः दत्तः, अधुना च बंगालस्य नूतन-दिशा दातुं समयः आगतः। सः अवदत् यत् परिवर्तनं जनानां एकेन मतदानेन सम्भवति, तथा मतदातारः एव राज्यस्य भविष्यं निर्णेष्यन्ति।
स्वयात्रायाः प्रसङ्गे सः बेलूरमठं प्रति गमनं सौभाग्यरूपं वर्णितवान्। गङ्गा-दर्शनं, जनसामान्यैः सह साक्षात्कारः तथा दक्षिणेश्वर-कालीमन्दिरे भगवत्याः काल्याः नमस्कारः इत्यादिनां विषयाणां अपि सः उल्लेखं कृतवान्। राज्यस्य मातृभ्यः तथा भगिनीभ्यः सः सम्मानं प्रकटितवान्।
सभायाः अन्ते प्रधानमन्त्री मोदी उक्तवान् यत् बंगालस्य गौरवं पुनः स्थापयितुं, तं अवसरभूमिं कर्तुं तथा महिलाभ्यः सुरक्षितं वातावरणं दातुं परिवर्तनम् आवश्यकम् अस्ति। सः उक्तवान् यत् भाजपा-सर्वकार-स्थापने महिलाविरुद्ध-अत्याचार-प्रकरणेषु शीघ्रं अन्वेषणं भविष्यति तथा दोषिणः दण्डं प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता