पश्चिमबङ्गे प्रथमचरण-मतदानेन परिवर्तनस्य लहरायाः अनुमोदनं कृतम् - प्रधानमन्त्री मोदी
कोलकातानगरम्, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-विधानसभानिर्वाचनस्य प्रथमचरण-मतदानानन्तरं प्रधानमन्त्री नरेन्द्रमोदी दमदम-नगर्यां जनसभां सम्बोधयन् उक्तवान् यत् प्रथमचरण-मतदानेन राज्ये परिवर्तनस्य तरंग: स्पष्टतया अनुमोदिता अस्ति तथा भाजपा-विजयस्य सं
मोदी


कोलकातानगरम्, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-विधानसभानिर्वाचनस्य प्रथमचरण-मतदानानन्तरं प्रधानमन्त्री नरेन्द्रमोदी दमदम-नगर्यां जनसभां सम्बोधयन् उक्तवान् यत् प्रथमचरण-मतदानेन राज्ये परिवर्तनस्य तरंग: स्पष्टतया अनुमोदिता अस्ति तथा भाजपा-विजयस्य संकेतः प्राप्तः।

सः अवदत् यत् जनता परिवर्तनं इच्छति तथा तृणमूल-कांग्रेस-सर्वकारस्य विरुद्धं असन्तोषः वर्धते। सः लोकतन्त्रस्य सुदृढीकरणं मतदानेन जातम् इति उक्तवान् तथा अग्रिमचरणेषु अपि अधिकं मतदानं कर्तुं आह्वानं कृतवान्।

प्रधानमन्त्री आरोपं कृतवान् यत् राज्ये महिला-सुरक्षा दुर्बला अस्ति, भ्रष्टाचारः वर्धते तथा उद्योगाः क्षीयन्ते। सः भाजपा-सर्वकारे महिलासुरक्षा, रोजगारः, स्वास्थ्य-सेवा (आयुष्मान-योजना) तथा विकासः सुनिश्चितः भविष्यति इति उक्तवान्।

अन्ते सः मतदातृभ्यः आह्वानं कृतवान् यत् अधिकमतदानं कृत्वा भाजपा-दलस्य विजयः सुनिश्चितः क्रियताम्।

हिन्दुस्थान समाचार / अंशु गुप्ता