Enter your Email Address to subscribe to our newsletters


-सूचना विज्ञान अधिकारिभिर्विहिता कार्यशाला सम्पन्ना
रायपुरम्, 24 अप्रैलमासः (हि.स.)।
मुख्यसचिवः विकासशील अद्य अत्र मंत्रालयमहानदीभवने उदीयमाननवीनसूचनाप्रौद्योगिकीविषये आधारितायाः एकदिवसीयकार्यशालायाः उद्घाटनं कृतवान्। मुख्यसचिवः कार्यशालां सम्बोध्य अवदत् यत् शासनस्य सर्वासां योजनानां अधिकतमः लाभः जनानां शीघ्रं प्राप्यते इति सुनिश्चित्यर्थं सूचनाप्रौद्योगिक्याः सर्वाः आवश्यकाः नूतनतन्त्रज्ञानानि उपयुज्यन्ताम्।
सः अवदत् यत् सूचना तथा संचारसंस्थानानि स्वकार्यक्रमान् मोबाइलऐप् वेबसाइटादीनि च नागरिककेन्द्रितानि सुलभप्रयोगयोग्यानि च कुर्वन्तु।
मुख्यसचिवः अपि उक्तवान् यत् राष्ट्रिय सूचना विज्ञान केंद्र (एनआईसी) अधिकारिणः नूतनसूचनाप्रौद्योगिक्या सह सदैव अद्यतनाः भवन्तु। नवीनतन्त्रज्ञानस्य माध्यमेन शासनस्य योजनाभ्यः हितग्राहिणः शीघ्रं लाभान्विताः करणीयाः।
सूचना प्रौद्योगिकी विभागस्य सचिवः अंकितआनन्दः राज्यस्तरीयसूचनाकेन्द्रस्य तथा जिलासूचनाविज्ञानकेन्द्राणां अधिकारिभ्यः तेषां संस्थानेषु उपलब्धसंसाधनानां उपकरणानां च विषये आवश्यकतासु च जानकारीं प्राप।
उद्घाटनसत्रे राष्ट्रिय सूचना विज्ञान केंद्र मुख्यालयस्य नईदिल्लीस्थितस्य डीडीजी दयानन्दसाहा अवदत् यत् विविधनवीनसूचनाप्रौद्योगिकीनां माध्यमेन वयं विभिन्नशासनयोजनाभिः नागरिकेभ्यः सेवाः प्रदातुं शक्नुमः।
कार्यशालायां विविधसूचनाप्रौद्योगिकीविशेषज्ञाः अधिकारिणः प्रतिभागिभ्यः विस्तृतां सूचनां प्रदत्तवन्तः। कार्यशालायां ट्रिपल आईटी संस्थानस्य संचालकः तथा कुलपतिः प्रो डॉ ओमप्रकाशव्यासः एआई उपयोगस्य विषये विस्तृतां व्याख्यां कृतवान्।
एनआईसी छत्तीसगढस्य संयुक्तसंचालकः श्रीकान्तपाण्डेयः साइबरसुरक्षाविषये, संयुक्तसंचालकः अभिजीतकौशिकः, उपेन्द्रसिंहः तथा अन्ये आईटीविशेषज्ञाः अपि सम्बोधितवन्तः।
कार्यशालायां विभिन्नजिलाभ्यः आगताः जिलासूचनाविज्ञानाधिकारिणः तथा राज्यस्तरीयसूचनाकेन्द्रस्य अधिकारीणः मध्ये सूचनाप्रौद्योगिकीनां उपयोगेन नागरिकसेवाः प्रदातुं शासनस्य प्रमुखयोजनानां लाभं शीघ्रं हितग्राहिभ्यः प्रापयितुं च विषये विस्तृतः विचारविमर्शः अभवत्।
अस्यां कार्यशालायां राष्ट्रियस्य सूचना विज्ञान केंद्रस्य विभिन्नजिलेषु कार्यरताः जिलासूचनाविज्ञानाधिकारिणः तथा राज्यस्तरीयाधिकारिणः सहभागीभूताः।
हिन्दुस्थान समाचार